SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ ३४४ न्यायकोशः। स्मृतः इति ( भाग० ३।१२।५ )। २ महादेवभट्टास्तु त्रिभिः सहितो रेणुः त्रसरेणुः इति व्युत्पत्त्या त्रिभिः परमाणुभिरेव त्रसरेणुः ज्यणुकं वा भवतीत्याहुः (दि०) (राम० १ पृ० ६९)। ३ त्रयोणवस्त्रसरेणुरिति बादरायणाचार्या आहुः इति केचित् । ४ भिषजस्तु जालान्तरगते सूर्यकरे ध्वंसी विलोक्यते। त्रसरेणुश्च स ज्ञेयस्त्रिंशता परमाणुभिः ।। इत्याहुः । ५ सूर्यपत्नीति पौराणिका आहुः ( वाच० )। त्राणम्- [क] अनिष्टनिवृत्त्यनुकूलो व्यापारः । यथा दस्युभ्यो मैत्रं त्रायते रक्षति कुलालाटं रक्षति इत्यादौ रक्षत्यर्थः। यन्निष्ठस्वदुःखोपधायकव्यापारविरहानुकूलव्यापारः तदपादानकं स्वकर्मकं रक्षणम् इति परमार्थः । दस्युभ्य इत्यत्र भीत्रार्थानां भयहेतुः (पा० सू० १।४।२५) इत्यनेनापादानसंज्ञा । तदर्थश्च अनिष्ठविरहानुकूलव्यापाररूपत्राणार्थकधातुयोगे यदनिष्टप्रयोजकं तदपादानम् इति । अनिष्टं च दुःखमेव (ग० व्यु० का० ५ पृ० १०६) । घटाद्यचेतनकर्मकरक्षणं च यन्निष्ठस्वविनाशोपधायकव्यापारविरहानुकूलव्यापारः तदपादानकं स्वकर्मकं रक्षणमिति निर्वाच्यम् । कुलालाबूटं रक्षतीत्यादौ प्रयोज्यत्वं पञ्चम्यर्थः । तथा च कुलालप्रयोज्यो यो घटनाशोपधायकव्यापारः तद्विरहानुकूलव्यापारकर्ता इति बोधः । यथा वा न कुर्वीतात्मनस्त्राणं गोरकृत्वा तु शक्तितः ( मनुः अ० ११ श्लो० ११३ ) इत्यादौ । [ख] केचित्तु अनिष्टपरिहारः । यथा चोरात्रायत इत्यादी इत्याहुः । अत्र चोरापादान कानिष्टपरिहारः इति बोधः । त्रिपुटी—मितिमातृमेयविषयिका प्रमा। यथा प्रभाकरमते सर्वस्य ज्ञानस्य मितिमातृमेयविषयकत्वात् त्रिपुटीप्रत्यक्षतेति (त० प्र० ख० ४ पृ०१२९ )। त्रिमूर्तिनी-त्रिवर्षा कन्या ( कल्याणीशब्दे दृश्यम् )। त्रिवृत्-स्तोमः । यथा त्रिवृद्धहिष्पवमानः ( जै० न्या० अ० १०॥५॥६ अधि० ७)। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy