________________
न्यायकोशः।
३४१ नलादि । अद्भिरिध्यते प्रकाश्यत इति विग्रहो द्रष्टव्यः ( सि० च० १ पृ० ७)। औदर्य पार्थिवजलोभयेन्धनं तेजः । तच्च भुक्तस्य परिणामहेतुः ( जाठरानलः )। आकरजम् अनुभयेन्धनं तेजः । तच्च सुवर्णत्रपुसीसरजतकांस्याद्यष्टकम् ( प्रशस्त० ) ( तर्कसं० ) (मु० १ पृ० ७९) (तर्ककौ० १ पृ० २)। अत्र केचिदाहुः । सुवर्ण पार्थिवम् तैजसं चेति मिश्रितं वस्तु । तत्र तैजसम् अग्निसंयोगानुच्छिद्यमानद्रवत्वाधिकरणम् । पार्थिवं तु अद्रुतं पीतरूपवत् इति । वस्तुतः द्रुतं पार्थिवमेव सुवर्णम् न तु तैजसम् इति (प० मा० )। न्यायवैशेषिकनये सुवर्ण तैजसमेव। तस्य तैजसत्वे प्रमाणमनुमानम् । तच्च सुवर्णमपार्थिवम् असति प्रतिबन्धकेत्यन्तानलसंयोगे सत्यप्यनुच्छिद्यमानद्रवत्वाधिकरणत्वात् यन्नैवं तन्नैवं यथा पृथिवी (घृतादिः ) इति । जलमध्यस्थघृतादौ व्यभिचारवारणाय असति प्रतिबन्धके इति । अग्निसंयोगासमानाधिकरणद्रवत्ववति घृतादौ व्यभिचारवारणाय अत्यन्तानलसंयोगे सति इति च विशेषणं दत्तम् ( नील० १ पृ० ८.) ( दि. १ पृ० ८१)। अनेनानुमानेनापार्थिवत्वसिद्धौ अत्यन्तानलसंयोगी पीतिमाश्रयः ( पृथिवी पक्षः) द्रवत्वनाशप्रतिबन्धकद्रवद्रव्यान्तरेण ( तेजस्वाभिमतेन सुवर्णेन ) संयुक्तः (साध्यः) अत्यन्तानलसंयोगे सत्यप्यनुच्छिद्यमानद्रवत्वाधिकरणत्वे सति गुरुत्वात् (हेतुः) जलमध्यस्थघृतवत् इत्यनुमानेन तैजसत्वसिद्धिर्द्रष्टव्या (नील० १ पृ० ८-९) (मु० १ पृ० ८१ )। अथवा सुवर्ण तैजसम् असति प्रतिबन्धके अत्यन्ताग्निसंयोगेप्यनुच्छिद्यमानजन्यद्रवत्वाधिकरणत्वात् यन्नैवं तन्नैवं यथा पृथिवी इति व्यतिरेकिणा तैजसत्वसिद्धिः (मु० १ पृ० ८१ )। यद्वा पीतिमगुरुत्वाश्रयः पीतरूपभिन्नरूपप्रतिबन्धकद्रवद्रव्यसंयुक्तः प्रहरपर्यन्तमनलसंयोगेपि पीतरूपभिन्नरूपानाश्रयत्वात् अनलसंयुक्तजलमध्यस्थितपीतपटवत् इति (वै० उ० २।१।७)। सुवर्णस्य तैजसत्वे अमेरपत्यं प्रथमं हिरण्यम् इत्यागमसंवादोपि ज्ञेयः (न्या० सि० दी० पृ० ४० ) (दि. १ पृ० ८१ )। प्रकारान्तरेण तेजश्चतुर्विधम् । किंचित् उद्भूतरूपस्पर्शम् । यथा सौरादि तेजः पिण्डितं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org