SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ न्यायकोशः । ३३३ ३९) इति । तदर्थव एतैर्युक्तं तिङन्तं पूजायां विषये नानुदात्तं स्यात् इति ( पा० सू० वृ० ) । ४ पादपूरणार्थम् । पादपूरणार्थको निरर्थक एव । अत्रोच्यते चन्द्रालोके निरर्थकं तुहीत्यादि पूरणैकप्रयोजनम् इति ( वा० ) । ५ भेदः । ६ अवधारणम् । ७ नियोगः । ८ प्रशंसा । ९ विनिग्रहः ( वाच० )। तुमुन् - ( प्रत्ययः ) १ [क] प्रकृतक्रियासमानकर्तृकत्वसहिततद्विषयकेच्छाधीनेच्छाविषयत्वम् । यथा पक्तुं व्रजतीत्यत्र तुमर्थः ( ग० व्यु० का० ४ पृ० ९८ ) ( श० प्र० श्लो० ९२ पृ० १२७ ) । अत्र समन्वयः पक्तुं व्रजतीत्यादौ प्रकृतक्रिया पचनम् तत्समानकर्तृकत्वम् यः पाककर्ता स एव व्रजनकर्ता इति व्रजनेस्ति । पाकेच्छाधीनेच्छा व्रजनेच्छा । तद्विषयत्वं च व्रजनेस्तीति सर्वं सुस्थम् । अत्र तुमुन्नन्तेन व्रजने पाकादिसमानकर्तृकत्वसहितं पाकविषयकेच्छाधीने च्छा विषयत्वं बोध्यते । तुमुन्ण्वुलौ क्रियायां क्रियार्थीयाम ( पा० सू० ३ । ३ । १० ) इति सूत्रेण समभिव्याहृतक्रियायां प्रकृतक्रियासमानकर्तृकत्त्रसहिततदिच्छाधीनेच्छाविषयत्वरूप तदर्थकत्वेन विवक्षितायां तुमुन्ण्वुलोर्विधानात् ( ग० व्यु० का ० ४ पृ० ९८ ) । [ ख ] तत्प्रागभावकालीन - तद्विषयकेच्छा । यथा भोक्तुमागच्छतीत्यादौ । अत्र भोजनप्रागभावकालीनभोजनविषयकेच्छावानागच्छति इति बोध: ( सि० च० ४ पृ० ३२ ) । २ इच्छावान् । यथा भोक्तुं व्रजतीत्यस्य भोजनेच्छावान् व्रजति इत्यर्थः । ३ कर्ता । यथा भोक्तुमिच्छतीत्यत्र तुमुनोर्थः । अत्र लक्षणया कर्ता बोध्यते । कर्तृविशेषणीभूतायां कृताविच्छाया अन्वयः । तेन भोजनकर्तारमात्मानमिच्छति इत्यर्थः ( तर्का ० पृ० १२ ) । तुरी – कुविन्दस्य काष्ठादिनिर्मितस्तन्तुवयन साधनविशेषः । यथा तुरीवेमादिकं पटस्य निमित्तकारणम् ( त० सं० १ ) इत्यादौ । तुल्यत्वम् — १ [ क ] सादृश्यवदस्यार्थोनुसंधेयः । यथा सकामां दूषयं Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy