SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ न्यायकोशः । श्री पाण्डुरङ्गो विजयते ॥ नत्वा श्रीविठ्ठलं देवं गुरूंश्च पितरौ तथा । मीमाचार्यो वितनुते न्यायकोशं कृते विदाम् ॥ १ ॥ न्यायसूत्रादितः शब्दानुद्धृत्यायं सुनिर्मितः । प्राग्भिस्तु कविभिर्यस्मान्नोपदर्शित ईदृशः || २ || अतः संमानयन्त्वेनं न्यायकोशं दयालवः । निर्मत्सराश्च विद्वांसो बालकस्येव चेष्टितम् ॥३॥ 1 अ. अंहस्पतिः —–— क्षयमासः । यस्मिन्मासे न संक्रान्ति: संक्रान्तिद्वयमेव वा । संसर्पांहस्पती मासावधिमासश्च निन्दिताः ( पु० चि० पृ० १६ ) अकर्मकः – (धातुः) [क] व्यापारसमानाधिकरणफलवाचकः ( ल० म० ) | यथा वृक्षात्पर्ण पतीत्यादौ पत्-धातुरकर्मकः । [ख] व्यापारव्यधिकरणफलबाचकत्वाभाववान् । [ग] व्याकरणशास्त्रीय कर्मसंज्ञकार्थानन्वय्यर्थक इति शाब्दिका वदन्ति । ( ल० म० धा० ५ ) [घ] फलावच्छिन्नव्यापारवाचको धातुरकर्मक इत्यपि कश्चिद्वक्ति । ( ल० व० ) [ङ ] व्यापाराधिकरणमात्रवृत्तिफलवाचकैः । ( वाच० ) १ व्यापाराधिकरणेतरावृत्ति यत्फलं तद्वाचक इत्यर्थः । तेन गम्यादौ फलस्य ( द्विष्ठत्वेन ) व्यापाराधिकरणकर्तृनिष्टत्वेऽपि नातिव्याप्तिः । (वै० सा० द० ८९ ) २ अत्र अधोदेशसंयोगानुकूलव्यापारस्य पत्- धात्वर्थत्वेनाधोदेशसंयोगरूपं फलं तदनुकूलव्यापारश्चैतद्वयमेकस्मिन् पर्णे तिष्ठतीति फलव्यापारयोः सामानाधिकरण्यं संगच्छत इत्यवधेयम् । 3 अत्रावच्छिन्नत्वं च पूर्वोक्तसामानाधिकरण्यात्मकमेवेति भाति । ४ तेन गम्यादेर्व्यापाराधिकरण- (कर्तृ) वृत्तिफलवाचित्वेऽपि नाकर्मकत्वम् । (वाच० ) ५ अत्रोक्तं हरिणा -- फलव्यापारयोरेकनिष्ठतायामकर्मक इति । एकनिष्ठतायामेकमात्रवृत्तितायामित्यर्थः । ( वाच० ) Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy