________________
२९६
न्यायकोशः। चन्द्रेणैकादश स्मृताः । इन्द्रियाणामधिष्ठातृदेवास्ते सात्त्विका मताः ॥ इति पदार्थादर्श ( वाच० )। [ग] बन्धमोक्षयोग्यः ( सि०. च०१ पृ० १२ )। [घ ] शरीरसापेक्षज्ञानवान् (प्र० प्र० प्रमेय० पृ० १०)। [3] अनित्यज्ञानवान् (त० कौ० १ पृ० ३ )। यथा हन्ताहमिमास्तिस्रो देवता अनेनैव जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि (छा० ६।३।२ इत्यादौ)। [च] बादरायणाचार्यास्तु एवं पञ्चविधं लिङ्गं त्रिवृत् षोडशविस्तृतम् । एष चेतनया युक्तो जीव इत्यभिधीयते ॥ ( भाग० ) इत्याहुः । [छ] मायावादिमते त्रयो हि जीवस्योपाधयः। तत्र सुषुप्तौ बुद्धयादिसंस्कारवासितमज्ञानमात्रम् स्वप्ने जानद्वासनामयं लिङ्गशरीरम् जाग्रदवस्थायां सूक्ष्मशरीरसंसृष्टं स्थूलशरीरम् उपाधिरिति तत्तदुपाध्युपलक्षितजाग्रत्स्वप्नसुषुप्तयोप्युपाधिशब्देन व्यवह्रियन्ते (वाच०)। तथा च तेषां मायावादिनां मते [ १ ] उपाधिप्रविष्टं वाङ्मनःप्राणकरणप्रामानुप्रविष्टं ब्रह्म जीवः [ २ ] घटावच्छिन्नाकाशवच्छरीरत्रितयावच्छिन्नं चैतन्यम् [ ३ ] दर्पणमुखप्रतिबिम्बवत् बुद्धिस्थं चैतन्यप्रतिबिम्बम् [ ४ ] साभासाहंकारश्चित्प्रतिबिम्बम् [ ५ ] अन्तःकरणोपहितं चैतन्यम् [६] अज्ञानस्य व्यष्टिशक्तिभेदो जीवः स च परमात्मनः अभिन्नश्च इति बोध्यम् । अत्रोच्यते कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः इति ( वेदा० ५०)। [ज] अनेकान्तवादिनस्तु जीवास्तिकायसंज्ञया परिभाषितः पदार्थविशेष इत्याहुः । [झ ] बोधात्मको जीवः ( सर्व० सं० पृ० ६७ आई० )। न्यायवैशेषिकनये जीवो देहेन्द्रियार्थादिव्यतिरिक्तः । अत्र सूत्रम् इन्द्रियार्थप्रसिद्धिरिन्द्रियार्थेभ्योर्थान्तरस्य हेतुः ( वै० ३।१।२ ) इति । तथा स जीवः परमात्मनः सकाशादतिरिक्तः । अत्र सूत्रम् शास्त्रसामर्थ्याच्च (वै० ३।२।२१)। शास्त्रं च श्रुतिः द्वे ब्रह्मणी वेदितव्ये इत्यादि । तथा द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्त्यनभन्नन्योभिचाकशीति इति (वै० उ० ३।२।२१)। न च तत्त्वमसि श्वेतकेतो ब्रह्मविद्ब्रह्मैव भवति इत्यादिश्रुतीनां का गतिरिति वाच्यम् । तत्त्वमसि इति श्रुतेस्तदभेदेन तदीयत्वप्रतिपादनेनाभेदभावनापरत्वात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org