SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ २७८ न्यायकोशः। सू० १।४।३७) इत्यनेन कर्मणः संप्रदानसंज्ञा । चतुर्थ्यर्थो विषयित्वम् । तस्य कोपेन्वयः ( ग० व्यु० का० ४ पृ० ९६ )। चतुर्हतः-पृथिवी होता इत्यादिको मत्रश्चतुर्होता । तस्य मत्रस्याभिमानि त्वेनात्मभूतः कश्चित्पुरुषः प्रजापतिना चतुर्वारमामश्रितः प्रत्युत्तरमुवाचेति स पुरुषश्चतुहूतः । तदीयनाम्ना मत्रोपि चतुहूतः (जै ० न्या० अ० ३ पा० ७ अधि० ४)। चमस:-पात्रविशेषस्थिताः सोमरसाश्चमसाः ( जै० न्या० अ० ३ पा० २ अधि० १२)। चयनम्-[क] छिदाहेतुर्विघट्टनम् ।. यथा वृक्षं फलान्यवचिनोतीत्यत्र · चिनोतेरर्थः । अत्र फलकर्मकच्छिदानुकूलं यत् वृक्षस्य विघट्टनम् ( चालनम् ) तद्वान् इत्येवं बोधः ( श० प्र० श्लो० ७३ पृ० ९९ )। [ख] शाब्दिकास्तु विभागपूर्वकमादानम् । यथा वृक्षमवचिनोति फलानीत्यादौ चिनोतेरर्थः इत्याहुः । अत्र वृक्षात्फलमादत्ते इति बोधः ( ल० म० सुब० पृ० ९२ )। ' चरमत्वम्-१ स्वसजातीयपदार्थप्रागभावानधिकरणत्वम् । यथा तन्तुः पटस्य चरमावयवः इत्यादाववयवस्य चरमत्वम् । यथा वा अब्रवीत् क्रियतामेषा सूतानां चरमा क्रिया ( भा० वि० अ० २४ ) उत्तिष्ठेत् प्रथमं चैव चरमं चैव संविशेत् ( मनु० ) इत्यादौ चरमत्वम् । क्वचित्स्वेतरभावकारणानपेक्षकार्यकत्वम् । यथा अनुमितिं प्रति परामर्श श्वरमकारणम् इत्यादी कारणस्य चरमत्वम् इति गुरुचरणाः प्राहुः । चर्या -(विधिः) प्रधानभूतः साक्षाद्धर्महेतुश्चर्या (सर्व० सं० पृ०१६९ नकुली० )। चाकचक्यम्-भ्रमोत्पादको दोषविशेषः यथा शुक्तौ चाकचक्यम् (नील० प्रामा० ५० ३७) । अत्र च शुक्तौ चाकचक्यदोषवशात् इदं रजतम् इति ज्ञानमुत्पद्यते इति ध्येयम् । उज्वलत्वमिति कश्चिदाह । तदाकारोन्तःकरणवृत्तिविशेष इति मायावादिन आहुः । अत्रोच्यते । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy