SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ न्यायकोशः। गुरुत्वसिद्धिः ( दि० गु० पृ० २३२ )। वल्लभाचार्यास्तु गुरुत्वं प्रत्यक्षम् ( स्पार्शनविषयः ) इत्याहुः (प० मा० ) (वै० उ० ४।१।१० )। लीलावतीकारस्तु भस्मीभावदशायां गुरुत्वापकर्षदर्शनात्तदन्यथानुपपत्त्या गुरुत्वमपि पाकजं मेने । आचार्यास्तु कारणगुणपूर्वकमध्ये गुरुत्वे पाकजत्वविशेषणमप्रवेशयन्तो गुरुत्वं पाकजं नेत्याविश्चक्रुः (प० मा०)। सांख्यास्तु गुरुत्वं तमोगुणस्य धर्म इत्याहुः ( वाच० )। अर्वाचीना हूणविद्याविशारदास्तु पृथिव्यादिगताकर्षणशक्तिविशेषेणैव पतनस्योपपत्तावलं गुरुत्वेन इति मेनिरे । गुरुत्वं जलभूम्योः पतनकारणम् अप्रत्यक्षम् पतनकर्मानुमेयम् संयोगप्रयत्नसंस्कारविरोधि । तस्य चाबादिपरमाणुरूपादिवन्नित्यानित्यत्वनिष्पत्तयः इति (प्रशस्त० २ पृ० ५२ )। अत्रेदं विज्ञेयम् । जन्यगुरुत्वमेव पतनं प्रति कारणम् इति कार्यकारणभावकल्पनात् आकाशादीनां गुरुत्वाभावो नैव । परमाण्वादीनां तु जन्यगुरुत्वाभावेन पतनासंभवः । पार्थिवजलपरमाण्योगुरुत्ववत्तया तस्य मालादिदेशसंयोगे पतनप्रतिबन्धकत्वाकल्पनेपि न परमाणुपतनापत्तिश्च इति ( राम० १११ पृ० ५६ ) । गुरुत्वं स्पर्शविशेषः प्रत्यक्षसिद्ध इति वल्लभाचार्याः ( नैयायिकविशेषाः ) आहुः । गुरुधर्मः-[क] अव्यावर्तकपदार्थघटितो धर्मः । यथा प्रमेयघट इत्यादौ घटत्वमपेक्ष्य प्रमेयत्वविशिष्टं घटत्वं गुरुधर्मः । [ख] अवच्छेदकत्वाद्यप्रयोजकपदार्थघटितो धर्मः। यथा पर्वतो वह्निमान्नीलधूमादित्यादौ नीलधूमत्वं गुरुधर्मः । अत्र नीलधूमत्वं शुद्धधूमत्वमपेक्ष्य गुरुधर्म इति व्याप्यतावच्छेदकं न भवतीति विज्ञेयम् । यथा वा कम्बुग्रीवादिमानास्तीत्यादौ कम्बुप्रीवादिमत्त्वं गुरुधर्मः । अत्र च न्यायः संभवति लघौ धर्मेवच्छेदकेतिप्रसङ्गानापादके गुरुधर्मो नावच्छेदकः इति । तेन च लघोर्घटत्वस्याभावीयप्रतियोगितायामवच्छेदकत्वसंभवे कम्बुग्रीवादिमत्त्वं गुरुतया नावच्छेदकम् इति बोध्यम् । [ग] बहुपदार्थोपस्थितिसापेक्षो धर्मः । यथा धूमत्वापेक्षया नीलधूमत्वं गुरुधर्मः इत्यादौ । गुरुभम्-पुष्यनक्षत्रम् (पु० चि० पृ० ३५७ ) । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy