SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ २३४ न्यायकोशः । स्तथात्वं संभवति । [ग] बाधितवदस्यार्थोनुसंधेयः । यथा कालात्ययापदिष्टश्च हेत्वाभासाश्च पञ्चधा ( भा० प० श्लो० ७२ ) इत्यादौ । कालिक विशेषता - ( स्वरूपसंबन्धः ) कालिक संबन्धवदस्यार्थोनुसंधेयः । कालिकसंबन्धः कालेन कृतः संबन्धः ( वाच० ) । यथा कालगन्धयोः संबन्धः । अयं च संबन्धः सर्वाधारताप्रयोजक संबन्ध इति जेगीयते । तथाहि अनेन संबन्धेन सर्वेषु जन्यभावेषु जन्यभावानां वृत्तिमत्त्वम् । नित्येषु तु कालिकसंबन्धेन न कस्यापि सत्त्वम् । नित्यानुयोगिककालिकसंबन्धस्यानुपगमात् । कालस्य च नित्यत्वेपि कालानुयोगिकस्तादृशसंबन्धस्तु स्वीक्रियत इति नैयायिका मन्यन्ते । अत्र च कालातिरिक्ते नित्ये कालिका योग: इति नैयायिकानां सिद्धान्तो द्रष्टव्यः । कालिकसंबन्धश्चायं स्वरूपादनतिरिक्त इत्यन्ये ( ग० सिद्धा० ) । महाकालजन्यपदार्थयोः एककालवृत्तिमतोर्जन्य पदार्थयोश्चायं संबन्धः । स च कालिक विशेषणताख्यः सर्वाधारताप्रयोजकः । यथा कालस्य गन्धादिसर्ववस्त्वाधारताप्रयोजकः कालिकाख्यः संबन्धः । एवं दिक्कतविशेषणतापि बोध्या ( त० दी० १ पृ० ७ ) । अत्रायं विवेकः । गगनादिकं सर्वदैवास्ति इत्यादिव्यवहारात्कालिकविशेषणताख्यसंबन्धे करमाण्वाद नित्या अपि काले वर्तन्ते । दिग्विशेषणताख्यया सर्वाधारतानियामिया तु जन्यमात्रं दिशि तिष्ठति इति ( राम० ११ पृ० ५६ ) । काली - ( कल्याणीशब्दे दृश्यम् ) । कालीनत्वम् — कालवृत्तित्वम् । यथा घटकालीनः पट इत्यादौ पटस्य घटकालीनत्वम् । प्राकाली नोत्तरकाली नार्वाकालीन प्रभृतिप्रयोगेषु खप्रत्ययो दृश्यते । स चानुतप्यवगन्तव्यः । अन्यथा बहुतरलक्ष्यक्षतिप्रसङ्गः स्यात् (गण० ) । अत्र च कालाट्ठञ् ( ४ | ३ | ११ ) इति पाणिनिसूत्रे कालात् इति योगं विभज्य युष्मदस्मदोरिति सूत्रान्मण्डूकप्लुत्या खञनु Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy