SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ न्यायकोशः। अत्र गौणकर्मणि गवादी लादयः (ल० म० सुब० पृ० ९१ )। शब्दशक्तिप्रकाशिकाकृतस्तु गां दोग्धि पय इत्यादौ प्रधानकर्म गौः पयस्त्वप्रधानकर्म इत्याहुः (शः प्र० पृ०९८)। एतत्तु पूर्व ( ६४ पृष्ठे) प्रपश्चितम् तत्र द्रष्टव्यम् । प्रकारान्तरेण ईप्सिततमं कर्म त्रिविधं भवति । प्राप्यम् प्रकृतिविकृती च । तत्राद्यम् क्रियाजन्यफलशालि । यथा ग्रामं गच्छतीत्यादौ गम्यादेामादि । घटं जानातीत्यादौ ज्ञानादेविषयश्च । द्वितीयं च क्रियया वस्त्वन्तरनिष्पत्तये पूर्वभावविशिष्टस्य यस्यासत्त्वरूपो विकारो निर्वाह्यते तत् । यथा तण्डुलानोदनं पचतीत्यादौ पाकादेस्तण्डुलादि । पुष्पाणि माल्यं करोति काशान्कटं करोति इत्यादौ कृतेश्च पुष्पकाशादि। तृतीयं च क्रियया निष्पाद्यं यत् तत् । यथा पाकादेरोदनादि । यथा वा कृतेः माल्यादि कटादि चेति । तत्र विकृतिरूपं कर्म प्रकृतेरसमभिव्याहारस्थले ओदनं पचतीत्यादौ निर्वर्त्यमित्युच्यते । तत्रोक्तम् सती वाविद्यमाना वा प्रकृतिः परिणामिनी । यस्य नाश्रीयते तस्य निर्वय॑त्वं प्रचक्षते ॥ इति । तदर्थश्च यस्य विकृतिकर्मणः नाश्रीयते न प्रयुज्यते इति । तण्डुलानोदनमित्यत्र तण्डुलादिरूपधर्मिनाशादेव पूर्वभावविशिष्टतदसत्त्वम् ओदनादिरूपकर्मान्तरनिष्पादकं क्रियातो निर्वहति इति बोध्यम् । अत्रेत्थमन्वयः । तण्डुलानोदनं पचतीत्यादौ प्रकृतिकर्मोत्तरद्वितीयायाः तण्डुलान् इत्यत्रत्याया: नाशकत्वमर्थः । तण्डुलाद्यन्वितं नाशकत्वं च पाकेन्वेति । विकृतिकर्मोत्तरद्वितीयायाश्च ओदनम् इत्यत्रत्यायाः उत्पादकत्वमर्थः । ओदनाद्यन्वितस्य तस्य नाशकत्वविशिष्टे पाकेन्वयः । नाशे चोत्पत्तेः प्रयोजकत्वम् उद्देश्यतावच्छेदकविधेयभावमहिम्ना नियमतो भासते । तथा च ओदनोत्पादको यस्तण्डुलनाशकः पाकः तदनुकूलकृतिमान् इति तण्डुलानोदनं पचतीति वाक्याबोधः । एवं तण्डुलमोदनं करोति काष्ठं भस्म करोति दुग्धं दधि करोति इत्यादावपि प्रकृतिकर्मोत्तरद्वितीयया तन्नाशकत्वं कृतौ प्रत्याय्यते। विकृतिकर्मोत्तरद्वितीयया च विषयताविशेष उत्पादकत्वं वा मिलितं वा कृतौ बोध्यते । अत्र तण्डुल १ अविद्यमाना इति पदच्छेदः । २७ न्या०को. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy