SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ २०६ न्यायकोशः। मत्त्वम् ( त० व० परि० १६ पृ० २४० ) ( वै० उ० १।१।१७ ) इत्यादि बोध्यम्। संयोग एव कर्मेति भूषणमतम् (प्र० प्र०)। भूषणमते संयोगापेक्षया कर्मणोतिरिक्तत्वं नास्तीति विज्ञेयम् ( दि० १ पृ० १९)। न्यायवैशेषिकनये कर्म पञ्चविधम् । उत्क्षेपणम् अपक्षेपणम् आकुश्चनम् प्रसारणम् गमनं चेति (वै० ११११७ ) ( त० कौ० १ पृ० १) ( त० सं० ) ( भा० प० श्लो० ६ )। गमनलक्षणं चोत्क्षेपणादिचतुष्टयभिन्नत्वे सति कर्मत्वव्याप्यजातिमत्त्वम् ( वै० उ० ११११७ )। तच्च गगनं बहुविधम् भ्रमणम् रेचनम् स्पन्दनम् ऊर्ध्वज्वलनम् तिर्यग्गमनम् इति । ( भा० ५० १ श्लो० ७ )। भ्रमणादिप्रकारः शिक्षिताश्वगत्यादौ प्रसिद्ध इति श्रूयते । भ्रमणादिषु गमनत्वजातेस्त्वनियतदिग्देशसंयोगविभागासमवायिकारणत्वमेव व्यञ्जकम् इति ज्ञेयम् (वै० उ० १।१।७) (वै० वि० १।१।७)। उत्क्षेपणादीनां पश्चानामपि कर्मत्वसंबन्धः एकद्रव्यवृत्तित्वम् क्षणिकत्वम् मूर्तद्रव्यवृत्तित्वम् अगुणवत्त्वम् गुरुत्वद्रवत्वप्रयत्नसंयोगजन्यत्वम् स्वकार्यसंयोगविरोधित्वम् संयोगविभागनिरपेक्षकारणत्वम् असमवायिकारणत्वम् स्वपराश्रयसमवेतकार्यारम्भकत्वं च। वस्तुतः कमैकविधमेव निष्क्रमणत्वप्रवेशनत्वादिवदुत्क्षेपणत्वादेर्जातित्वाभावेन भेदकत्वाभावात् इति विज्ञेयम् ( ५० मा० )। २ क्रियते फलार्थिभिरिति कर्म धर्माधर्मात्मकं बीजाङ्कुरवत्प्रवाहरूपेणानादि (सर्व० सं० पृ० १८८ शैव०)। यथा कर्मणैव हि संसिद्धिमास्थिता जनकादयः (गीता० ३।२० ) इत्यादौ । कर्माणि षट् शान्तिकरणम् वशीकरणम् स्तम्भनम् विद्वेषः उच्चाटनम् मारणं चेति । एते षट् प्रयोगास्तश्राद्युक्ताः । यजनम् याजनम् अध्ययनम् अध्यापनम् दानम् प्रतिग्रहश्चेति एतानि ब्राह्मणस्य षट् कर्माणि । धौतिबस्तिस्तथा नेतिौलिकी त्राटकस्तथा । कपालभातिश्चैतानि षट् कर्माणि समाचरेत् ॥ इत्यनेनोक्तानि शुद्धिकराणि षट् कर्माणि हठयोगाङ्गानि ( वाच०) । केचित्तु कर्म त्रिविधम् नित्यं काम्यं नित्यकाम्यं चेति । तत्र केवलं नित्यं संध्यावन्दनादि । केवलं काम्यं यागादि। नित्यकाम्यं तु एकादशीव्रतादीत्याहुः । एतद्गतस्याकरणे Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy