SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ २०१ न्यायकोशः। कार्यानुत्पादस्तत् ( नील० १ पृ० १६ )। शाब्दिकास्तु स्वव्याप्येतरयावत्कारणसमवधाने सति यदव्यवहितोत्तरक्षणे फलनिष्पत्तिस्तदित्याहुः (वै० सा० द० सुब० पृ. १७९)। फलायोगव्यवच्छिन्नं फलोपधायकं वा कारणमेव करणम् । ज्ञानादावात्मापि करणमिष्टमेव ( श० प्र० पृ० ८८ ) ( न्या० म० १ पृ० २)। आभ्यन्तरम् बाह्यम् इति द्विविधः कारणविशेषः करणम् इति सांख्या आहुः । सांख्यानामयं सिद्धान्तः कारणविशेषः करणम् । करणं त्रयोदशविधम् । यदाह करणं त्रयोदशविधं तदाहरणधारणप्रकाशकरम् । ( सां० का० ३२ ) । करणं त्रयोदशविधम् । इन्द्रियाण्येकादश बुद्धिरहंकारश्चेति त्रयोदशप्रकार करणम् (वाच०)। तत्रेन्द्रियरूपं करणमाहारकम् । बुद्धिरूपं प्रकाशकम् । अभिमानरूपं धारकमिति बोध्यम् । करणी–वैश्याच्छूद्रायामुत्पन्ना ( रथकारशब्दे दृश्यम् ) । कर्कटः-कर्कटौ तुलान्तयोः शिक्याधारावीषद्वक्रावायसकीलकौ कर्कटशृङ्ग संनिभौ ( मिताक्षरा अ० २ श्लो० १०२ )। कर्ता—क्रियानुकूलकृतिमान् । यथा चैत्रस्तण्डुलं पचतीत्यादौ चैत्रादिर्मुख्यः कर्ता । स्वतः कर्ता (पा० १।४।५४ ) इति सूत्रे स्वातत्र्यमपि क्रियानुकूलकृतिमत्त्वमेवेति न तद्विरोधः (म० प्र० पृ० ६)। शब्दिकास्तु स्वातत्रयं च समभिव्याहृतकारकान्तरानधीनत्वे सति कारकत्वम् ( वै० सा० द०)। धात्वर्थव्यापाराश्रयत्वं वा (ल० म० सुब० पृ० ९५) (वै० सा० पृ० १७३)। अत्रोक्तं हरिणा धातुनोक्तक्रिये नित्यं कारके कर्तृतेष्यते । प्राधान्यतः शक्तिलाभात्प्राग्भावापादनादपि ॥ तदधीनप्रवृत्तित्वात्प्रवृत्तानां निवर्तनात् । अदृष्टत्वात्प्रतिनिधेः प्रविवेके च दर्शनात् ।। आरादप्युपकारत्वात्स्वातव्यं कर्तुरिष्यते इति । नागेशभट्टादयस्तु कर्तृप्रत्ययसमभिव्याहारे व्यापारतावच्छेदकसंबन्धेन धात्वर्थनिष्ठविशेष्यतानिरूपितप्रकारतानाश्रयतद्धात्वर्थाश्रयत्वम् (ल० म० सुब० पृ० ९५) (वै० सा० द० सुब० पृ० १७३) इत्याहुः । घटो भवति पटो नश्य२६ न्या. को Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy