SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ न्यायकोशः। ऐकान्तिकः-१ एकमात्रव्याप्तिग्राहकसहचारो यत्र सः (गौ० वृ० १।२।५)। यथा अनैकान्तिक इत्यादावैकान्तिकः । यथा वा वहिमान् धूमादित्यादौ धूम ऐकान्तिकः । अत्र व्युत्पत्तिः एकस्य साध्यस्य तदभावस्य वा योन्तः सहचारः अव्यभिचरितसहचारः तस्यायमित्यै कान्तिकः इति । २ अवश्यंभावीति सांख्यवेदान्तिनः ( वाच० )। ऐतिह्यम्-[क] इति होचुः इत्यनिर्दिष्टप्रवक्तृकं प्रवादपारम्पर्यम् (वात्स्या० २।२।१ )। [ख] अनिर्दिष्टप्रवक्तृकं परंपरागतं वाक्यम् । यथा वटे वटे यक्षः इत्यादि । तद्धि इति होचुरित्यनेन प्रकारेण उच्यते ( गौ० वृ० २।२।१)। [ग] अज्ञातमूलवक्तकः शब्दः । विशिष्यानिश्चितप्रथमवक्तृकः शब्द इत्यर्थः ( नील० पृ० ३४ )। यथा इह वटे यक्षस्तिष्ठति इति (त० दी० पृ० ३४) । ऐतिचं प्रमाणान्तरमिति अष्टप्रमाणवादिनः पौराणिकाः ( म० प्र० पृ० ६५ ) ( नील० पृ० ३४ )। तत् प्रमाणान्तरं नेति नैयायिकसांख्यादयः प्राहुः। अत्रेदं बोध्यम् । तदेतदैतिह्यमाप्तोक्तं चेच्छब्दान्त वादनुमानमेव । न चेत् प्रमाणमेव न भवतीति (त० व० पृ० १०० ) ( न्या० म० २ पृ० ३२ ) ( नील० पृ० ३४)। ऐन्द्रानम्-(नक्षत्रम् ) विशाखा (पुरु० चि० पृ० ३५३ )। विशाखा___ नक्षत्रस्येन्द्राग्निदेवताकत्वादैन्द्राममिति संज्ञा । ऐशानी—(दिक् ) सुमेरुसंनिहिता उदयगिरिसंनिहिता च दिक् ( वै० - वि० २।२।१० )। यथा झळकीप्रामत ऐशान्यामक्कलकोटग्रामः । ... ओ ओषधिः-फलपाकावसानाः शालिप्रभृतयः ( मिता० २।२२९ )। औग्यम्-आत्मन्युत्कर्षप्रत्ययः ( न्या० वा० पृ० १ )। औदयिकः-कर्मोदये सति भवन्भाव औदयिकः ( सर्व० सं० पृ० ६८ आई०)। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy