________________
१३६
न्यायकोशः। समन्वया विज्ञेयाः। [ख] स्वविरुद्धधर्मावच्छिन्नधर्मितावच्छेदकक स्वावच्छिन्नप्रकारकं ज्ञानम् । यथा धूमव्यभिचारविशिष्टवह्नयादिधर्मितावच्छेदकको धूमव्याप्यतया वह्नयादिप्रकारको धूमव्यभिचारिवह्निमान् धूमव्याप्यवह्निमान इत्याकारको ग्रहः (ग. सामा० २ पृ० १४)। अत्र स्वं धूमव्याप्यत्वम् । तद्विरुद्धो धर्मः धूमव्यभिचारः । तदवच्छिन्नः वह्नयादिः। स एव धर्मितावच्छेदको यत्र ग्रहे सः । किंच स्वं धूमव्याप्यत्वम् । तदवच्छिन्नः तेन रूपेण वह्नयादिः । स एव प्रकारो यस्मिन् ग्रहे सः इति विग्रहार्थलक्षणसमन्वया विज्ञेयाः । [ग] स्वस्मिन्स्वावृत्तित्वावच्छिन्नप्रकारकं ज्ञानम् । यथा पर्वतः पर्वतावृत्तिमान् इति ज्ञानम् (ग०सामा० २ पृ० १९)। अत्र स्वपदं पर्वतपरम् । तथा च एतज्ज्ञानस्य पर्वते पर्वतावृत्तित्वविशिष्ट प्रकारकत्वेनाहार्यत्वं संपद्यते इति बोध्यम् । [५] स्वविषयकेच्छाव्यवहितोत्तरक्षणोत्पन्नप्रत्यक्षम् । अत्र स्वमाहार्यम् । तथा च विषयत्वस्वाव्यवहितोत्तरत्व-एतदुभयसंबन्धेनेच्छावच्छिन्नप्रत्यक्षमित्यनुगमो बोध्यः ( ग० सत्प्र० पत्रे,१७ )।[ङ ] बाधकालीनेच्छाजन्यं ज्ञानम् । यथा ह्रदो वह्निमान इति ज्ञानम् । इदं त्ववधेयम् । आहार्यात्मकं ज्ञानं प्रत्यक्षमेवेति नैयायिकानां सिद्धान्तः । शाब्दबोधास्मकमपीत्यालंकारिका वदन्ति इति । २ व्याप्यम् । यथा कार्य च तस्य दशधाहार्य धार्य प्रकाश्यं च ( सांख्यकारिका ३२) इत्यादौ ।
३ लौकिक औपासनिकोग्निराहार्य इति याजका वदन्ति ( वाच० )। आह्वीनैबुकम्-स्वस्वकुलागतं करञ्जार्का दिस्थावरदेवतापूजादिकम् (जै०
न्या० अ० १ पा० ३ अधि. ८)।
इच्छा-[क] (गुणः) इच्छात्वसामान्यवती (प्र० प्र० १७ ) ( त०
कौ० पृ० १८ )। सा च यथा इदं मे भूयात् इत्येवंरूपः कामोभिलाषो वा ( त० सं०)। सा च मनोग्राह्या आत्ममात्रवृत्तिश्चेति विज्ञेयम् ( भा० ५० श्लो० ५८) । इच्छालक्षणं च प्रवृत्तेः साक्षादनुकूलत्वम् ( वाक्य० पृ. २१)। अथवा यत्नसंस्कार
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org