SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ १३० न्यायकोशः । आरामः - पुष्पफलोपचयहेतुर्भूभाग ( मिताक्षरा व्य० लो० १५४ ) । आरोपः - भ्रमवदस्यार्थोनुसंधेयः । आरोहणम् – ऊर्ध्वदेशावच्छिन्न संयोगानुकूलक्रिया । यथा आरूढवानरो वृक्षः इत्यादी । अत्र आरूढो वानरो यम् इति व्यासे क्तप्रत्ययस्याश्रयोर्थः । द्वितीयाया आधेयत्वम् । तथा च वृक्षवृत्त्यूर्ध्वदेशावच्छिन्नसंयोगानुकूलक्रियाश्रयो वानरः इत्यन्वयबोधः । समासे तु आरोहणकर्तृवानरसंबन्धी वृक्षः इत्यन्वयबोधः । संबन्धश्च तत्र स्वकर्तृकारोहण कर्मत्वरूपः ( त० प्र० ख० ४ पृ० ४९ ) । आर्थीभावना - १ प्रयत्नविशेषः । २ अन्योत्पादनानुकूलव्यापार सामान्यम् ( मी० न्या० पृ० ७२ ) । आर्षम् – १ (विद्या) आम्नायविधातृणामृषीणामतीतानागतवर्तमानेष्वर्थे ध्वतीन्द्रियेषु धर्मादिषु प्रन्थोपनिबद्धेष्वनुपनिबद्धेषु चात्ममनसोः संयोगविशेषाद्धर्मविशेषाच्च यत्प्रातिभं प्रतिभाजन्यं ज्ञानं यथात्मनिवेदनमुत्पद्यते तत् आर्षम् इत्याचक्षते । तच्च ज्ञानं बाहुल्येन देवर्षीणाम् । कदाचिदेव लौकिकानाम् । यथा कन्यका ब्रवीति श्वो मे भ्राता आगन्ता इति हृदयं मे कथयति इति । सिद्धदर्शनं न ज्ञानान्तरम् । कथैम् । यत्सूक्ष्मव्यवहितविप्रकृष्टेष्वर्थेषु सिद्धानां द्रष्टृणामञ्जनपादलेपगुटिकादिसिद्धीनां दर्शनं तत्प्रत्यक्षमेव । दिव्यान्तरिक्ष भौमानां प्रहनक्षत्रसंचारादि निमित्तमुपलभ्य प्राणिनां धर्माधर्मविपाकदर्शनं यत् तदनुमानमेव । अथ लिङ्गानपेक्षं धर्मादिदर्शनं तदार्षप्रत्यक्षयोरन्यतरस्मिन्नर्तभूतम् इति ( प्रशस्त० गुण ० पृ० ३२ ) । २ विवाहभेद: । आदायार्षस्तु गोद्वयम् । यत्र पुनर्गोमिथुनमादाय कन्या दीयते स आर्ष : ( मिताक्षरा अ० १ श्लो० ५९ ) । 1 आलम्बनम् – यस्मिन्विज्ञाने यदवभासते तत्तदालम्बनम् ( सर्व० सं० पृ० ४२२ शां० ) । १ अत्र पाठान्तरम् - कथम् । प्रत्यक्षानुमानाभ्याम् । तत्र प्रत्यक्षेण विप्रकृष्टपदार्थदर्शनम् । अनुमानेन तु दिव्यान्तरिक्ष० इति । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy