SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ न्यायकोशः । १११ भवेत् । यदि पूर्वं साधनम् असति साध्ये कस्य साधनम् । अथ पश्चात् असति साधने कस्येदं साध्यम् । अथ युगपत्साध्यसाधने द्वयोर्विद्य मानयोः किं कस्य साधनं किं कस्य साध्यमिति हेतुना न विशिष्यते । अहेतुना साधम्र्म्यात्प्रत्यवस्थानम हेतुसम: ( वात्स्या० ५ | १ | १८ ) ( नील० पृ० ४४ ) । प्रतिकूलतर्कदेशनाभासोयम् इति बोध्यम् ( गौ० वृ० ५।१।१८ ) । हेतुसमेति पाठे तु कालत्रयेपि हेतुत्वस्यासंभवकथनं हेतुसमेत्यर्थः ( नील० पृ० ४४ ) । [ख] कालसंबन्धखण्डनेनाहेतुतया प्रत्यवस्थानम् । अयमर्थः । दण्डादिकं घटादेर्न पूर्ववर्तितया कारणम् । तदानीं घटादेरभावात् कस्य कारणं स्यात् । अत एव न घटाद्युत्तरकालवर्तितयापि । न वा समानकालवर्तितया । तुल्यकालवर्तिनोः सव्येतरविषाणयोरिवाविनिगमनापत्तेः । कारणमात्रखण्डनेन ज्ञप्तिहेतोरपि खण्डनान्न तदसंग्रहः ( गौ० वृ० ५।१।१८ ) । [ग] कालत्रयेपि हेतुत्वासंभवेनाहेतुत्वकथनम् ( नील० पृ० ४४ ) । अहोरात्रम् — लध्वक्षरसमा मात्रा निमेषः परिकीर्तितः । अत सूक्ष्मतरः कालो नोपलभ्यो भृगूत्तम ॥ नोपलभ्यं यथा द्रव्यं सुसूक्ष्मं परमाणुतः । द्वौ निमेषौ त्रुटिर्ज्ञेया प्राणो दशत्रुटिः स्मृतः ॥ विनाडिका तु षट् प्राणास्तत्षष्ट्या नाडिका स्मृता । अहोरात्रं तु तत्षष्ट्या नित्यमेव प्रकीर्तितम् ॥ त्रिंशन्मुहूर्ताश्च तथा अहोरात्रेण कीर्तिताः ( पु० चि० पृ० २ ) । आ. आकर्षणम् – गतिहेतुविकर्षणम् । यथा शाखां ग्राममाकर्षति देवदत्त इत्यत्र धात्वर्थः । अत्र ग्रामकर्मकं यच्छाखागमनं तदनुकूलविकर्षणवान् इति बोधः । विकर्षणं नम्रीकरणम् ( श० प्र० पृ० ९९ ) । 1 आकस्मिकम् – यत्किचित्कारणानियम्यम् ( दि० १ प्र० ६३ ) । यथा अकस्मादेव भवति कार्यं न किंचिदपेक्षमिति तदेतन्मतमित्यादौ । आकाङ्क्षा -- [क] अभिधानापर्यवसानम् । इयं च ज्ञाता सती शाब्दबोधे शब्दस्य सहकारिणी । अत एव गौरवः पुरुषो हस्तीत्यादौ नान्वयबोधः । I Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy