SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ न्यायकोशः। असूया च कोपमूलिका (ल० म० पृ० १०३ )। [ख] शाब्दिकास्तु शौचाचारादिगुणविषये दम्भादिकृतत्वरूपदोषारोपानुकूलश्चित्तवृत्तिविशेषः । यथा हरये असूयतीत्यादौ इत्याहुः ( ल० म० पृ० १०३ )। [ग] परगुणादौ द्वेषः ( गौ० वृ० ४।१।३ )। [घ ] गुणद्वेषः । यथा पुत्रायासूयतीत्यत्र धात्वर्थः । अत्र पुत्रस्य गुणं द्वेष्टि इत्याकारको बोधः ( श० प्र० पृ० ८७ )। अस्तिकायः—पदार्थः । स च पञ्चविधः। जीवाकाशधर्माधर्मपुद्गलास्ति कायभेदात् । अत्र जीवादीनां पुद्गलान्तानां पश्चानां द्वंद्वः। ततश्चास्तिकायशब्देन कर्मधारयः समासः । एवं च जीवादीनां पञ्चानाम् अस्तिकाय इति संज्ञा बोध्या । एतेषु पञ्चसु तत्त्वेषु कालत्रयसंबन्धितया अस्तीति स्थितिव्यपदेशः । अनेकप्रदेशत्वेन शरीरवत्कायव्यपदेशः ( सर्व० सं० पृ० ६९ आहेत० )। अस्तित्वम्-[क] कालसंबन्धित्वम् (दि. १) (५० मा० ) । यथा घटोस्तीत्यादौ घटादेरस्तित्वम् । [ख ] अस्-शब्दवदस्यार्थोनु संधेयः । अस्तेयव्रतम्-अनादानमदत्तस्यास्तेयव्रतमुदीरितम् ( सर्व० सं० पृ. ६५ आई०)। अस्मद्-अहम् शब्दवदस्यार्थीनुसंधेयः। अस्मिता-सत्त्वपुरुषयोरहमस्मीत्येकताभिमानः अस्मिता । तदप्युक्तम् दृग्दर्शनशक्त्योरेकात्मत्वाभिमानोस्मिता इति ( सर्व० सं० पृ० ३६२ पातञ्ज०)। अहंकार-१ अहमित्यभिमानः । स च शरीरादिविषयको मिथ्या ज्ञानविशेष उच्यते । स च दोषनिमित्तानां शरीरादीनां तत्त्वस्यानात्मत्वस्य ज्ञानान्निवर्तते । आत्मत्वेन हि शरीरादौ मुह्यन् रञ्जनीयेषु रज्यति कोपनीयेषु कुप्यति (गौ० वृ० ४।२।१)।२ अभिमानाश्रयोन्त:करणमहंकार इति मायावादिनः। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy