SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ न्यायकोशः। अव्यवहितोत्तरत्वम् – स्वाधिकरणक्षणध्वंसाधिकरणक्षणध्वंसाधिकरणत्व सामान्याभाववत्त्वे सति स्वाधिकरणक्षणध्वंसाधिकरणत्वम् । यथा विशिष्टज्ञानस्य विशेषणज्ञानाव्यवहितोत्तरत्वम् । यथा वा अनुमितेः परामर्शाव्यवहितोत्तरत्वम् । अत्र सत्यन्तेन दलेन अव्यवधानम् विशेष्यदलेन तूत्तरत्वं गम्यते इति ज्ञेयम् । इदं विशिष्टलक्षणं च ज्ञानाद्युत्पत्तिद्वितीयक्षणसाधारणम् (ग० पक्ष० पृ० ४२) । तृतीयक्षणसाधारणं तु ज्ञानादेस्तृतीयक्षणे विनाशेन स्वध्वंसाधिकरणक्षणध्वंसाधिकरणत्वे सति स्वाधिकरणक्षणध्वंसाधिकरणत्वरूपं ज्ञानाद्यव्यवहितोत्तरत्वम् ( दीधि० २ पृ० १२७ )। अव्यापकविषयिताशून्यत्वम्-यद्रूपावच्छिन्ननिरूपितविषयितात्वं विशिष्टविषयकत्वसमानाधिकरणाभावप्रतियोगितावच्छेदकं तद्रूपावच्छिन्ननिरूपितविषयिताशून्यत्वम् । यथा हृदो वह्निमानित्यादौ वह्नयभाववद्भदरूपबाधविषयकस्य ह्रदो न वह्निमान् इति निश्चयस्य अव्यापकीभूतजातित्वाद्यवच्छिन्ननिरूपितविषयिताशून्यत्वम् (ग. सामा० २ लक्षणे )। खभिन्नत्व-स्वनिरूपितसंसर्गतान्यविषयतानिरूपितत्व - एतदुभयसंबन्धेन यद्रूपावच्छिन्नविषयताविशिष्टयद्रूपावच्छिन्नविषयतानिरूपितविषयितात्वं तादृशविशिष्टविषयकत्वसमानाधिकरणाभावप्रतियोगितावच्छेदकं तद्रूपावच्छिन्नविषयताविशिष्टतद्रूपावच्छिन्नविषयतानिरूपितविषयिताशून्यत्त्रं निष्कृष्टार्थ इत्यस्मद्गुरुचरणाः प्राहुः । अधिकं तु क्रोडपत्रादितो ज्ञेयम् । अव्याप्तिः—(लक्षणदोषः) १ [क] लक्ष्यतावच्छेदकसमानाधिकरणात्यन्ताभावप्रतियोगित्वम् (न्या० बो० १ ० ३)। अत्र गोः कपिलत्वं लक्षणमित्युक्तौ गौर्लक्ष्या भवति । लक्ष्यतावच्छेदकं गोत्वम् । तस्य समानाधिकरणः गोत्वस्याधिकरणे शुक्लगवि वर्तमानः कपिलत्वस्यात्यन्ताभावः । तस्य प्रतियोगि कपिलवं भवति । तथा च प्रतियोगित्वं १ इदं च निश्चयस्य विशेषणं गदाधर्या हेत्वाभाससामान्यनिरुक्तौ द्वितीयलक्षणे झुपयुज्यते। उपयोगस्तु हृदो वह्निमान् धूमादित्यादौ जातित्वेन ह्रदत्वाद्यवगाहिनो जातिमान् वह्नयभाववान् इति निश्चयस्य प्रतिबन्धकत्ववारणरूप इति बोध्यम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy