________________
न्यायकोशः ।
मात्रम् । यथा मानान्तरविरोधे तु मुख्यार्थस्यापरिग्रहे । अभिधेयाविनाभूतप्रतीतिर्लक्षणोच्यते ॥ ( भट्टवार्तिके) इत्यादौ अविनाभावशब्दार्थः ( काव्यप्र० उ० २ पृ० २० ) । २ मीमांसकमते तु स्वदेशवृत्तित्वं तादात्म्यं च अविनाभावः । यथा व्यक्त्यविनाभावात्तु जात्या व्यक्तिराक्षिप्यते ( काव्यप्र० २ पृ० १७ ) इत्यादौ अविनाभावशब्दार्थः । अविनाभावो गुरुमते जातेर्व्यक्तिदेशत्वम् । भट्टमते तु तादात्म्यम् इति ( काव्यप्र० टी० कमला ० पृ० १७ ) । अविरतिः - [क] पृथिव्यादिषट्कोपादानं षडिन्द्रियासंयमनं चाविरतिः ( सर्व० सं० पृ० ७५ आर्हत० ) । [ख] विषयाभिलाष: ( सर्व० सं० पृ० ३५५ पातञ्ज० ) ।
अविवेकः – १ विवेकाभावः । २ अन्योन्यतादात्म्यारोपरूपं मिथ्याज्ञानमिति सांख्याः ।
९५
अविशेषसमः - ( जाति: ) [क] एकधर्मोपपत्तेरविशेषे सर्वाविशेषप्रसङ्गात्सद्भावोपपत्तेरविशेषसम : ( गौ० ५ | १।२३ ) । एको धर्मः प्रयत्नानन्तरीयकत्वं शब्दघटयोरुपपद्यत इत्यविशेष उभयोरनित्यत्वे सर्वस्याविशेषः प्रसज्यते । कथम् । सद्भावोपपत्तेः । एको धर्मः सद्भावः सर्वस्योपपद्यते । सद्भावोपपत्तेः सर्वाविशेषप्रसङ्गात्प्रत्यवस्थानम विशेषसमः ( वात्स्या ० ५।१।२३ ) । अविशेषेण समः अविशेषसमः इति व्युत्पत्तिः । [ख] सन्मात्रवृत्तिधर्मेणाविशेषापादनम् । प्रतिकूलतर्कदेशनाभासोयम् ( गौ० वृ० . ५।१।२३ ) । [ग] सर्वाविशेषप्रसङ्गोद्भावनम् । यथा शब्दः अनित्यः कृतकत्वादित्यादौ यदि कृतकत्वादिना अनित्यघटादिसाधर्म्येण शब्दस्यानित्यत्वं तदा प्रमेयत्वादिरूपेण तत्साधर्म्येण सर्वस्यैवानित्यत्वं स्यात् । मदुक्त राधर्म्येण तत्सिध्यति न तु त्वदुक्तेनेत्यत्र विनिSanatanaादिति ( नील० पृ० ४४ ) ।
अवेष्टि:- राजसूये अवेष्टिसंज्ञकाः पञ्च यागाः । ते च यथा आग्नेयमष्टाकपालं निर्वपति हिरण्यं दक्षिणा । ऐन्द्रमेकादशकपालमृषभो दक्षिणा ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org