SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ न्यायकोशः। त्वम् । अत्रेदं बोध्यम् । देशे वृत्तौ कालस्यावच्छेदकत्वम् काले वृत्तौ देशस्यावच्छेदकत्वम् इति नियमेन गवाभावावच्छेदकत्वं कदाचिद्देशस्य कदाचित्तु कालस्यापि संभवति इति । किंचात्र अवच्छेद्याधिकरणत्वं यस्य संभवति तस्यैवावच्छेदकत्वम् इति नियमोप्यङ्गीकर्तव्यः । तेन प्रलयस्य गवावच्छेदकत्वापत्त्यसंभवः (ग० च० १ स्खलक्षण० )। देशकालयोरवच्छेदकत्वं तु स्वरूपसंबन्धरूपमेवेति नियमोत्र ज्ञेयः । २ अवच्छेदकत्वाख्यो विषयतात्मकः स्वरूपसंबन्धविशेषः । यथा पर्वते वह्निसाधने पर्वतत्वस्य पर्वतो वह्निमान् इत्यनुमित्यात्मकज्ञानीयवह्निनिष्ठविधेयतानिरूपितोद्देश्यतावच्छेदकत्वम् । ३ स्वाश्रयजन्यत्वम् स्वाश्रयविशेषणत्वं वा । यथा धात्वर्थतावच्छेदकफलशालित्वं कर्मत्वमित्यादौ फले धात्वर्थताया अवच्छेदकत्वम् । स्वं धात्वर्थता । तदाश्रयो व्यापाररूपो धात्वर्थः । तजन्यत्वं . फले शाब्दिकास्तु फलावच्छिन्नव्यापार इत्यादौ फलसंबन्धिव्यापारः इति बोधोदयात् संबन्ध एवात्रावच्छेदकत्वमित्याहुः (वै० सा० द० सु० )। ४ व्यापकत्वम् । यथा पर्वतत्वावच्छेदेन वह्नौ साध्ये पर्वतो वह्निमानित्यादौ पर्वतत्वव्यापकवह्निप्रतियोगिकसंयोगत्वस्यावगाहमानं संसर्गतावच्छेदकत्वम् (ल० व० पृ० २२) । अत्र पर्वतत्वव्यापकवह्निप्रतियोगिकसंयोगस्याप्रसिद्ध्या तादृशसंयोगत्वे संसर्गताया अवच्छेदकत्वं न भासते अपितु केवलसंयोग एव पर्वतत्वव्यापकत्वं संसर्गतावच्छेदकत्वेन ( अवच्छेदककोटिप्रविष्टानामप्यवच्छेदकत्वमिति पक्षे ) भासते इति तु वयम् । ५ व्याप्यत्वम्। यथा यद्रूपावच्छिन्नविषयतानिरूपितविषयिता अनुमितिप्रतिबन्धकतावच्छेदिका तंद्रूपावच्छिन्नत्वमिति हेत्वाभाससामान्यलक्षणे ह्रदो न वह्निमान् इति निश्चयीयविषयितायां ह्रदो वह्निमान् इत्यनुमितिनिष्टप्रतिबध्यतानिरूपितप्रतिबन्धकताया अवच्छेदकत्वम् । व्याप्यत्वमित्यस्य स्वव्यापकतत्कत्वमित्यर्थः (ग० सामा०प० ९)। कचिच्च स्वव्यापक तत्कान्यत्व-तत्सामानाधिकरण्य-एतदुभयाभाववत्त्वम् । तेन व्यधिकरण... धर्मस्य प्रतियोगितावच्छेदकत्वं संगच्छते (ग० च० द्वितीयस्वलक्षण Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy