SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ ૮૨ न्यायकोशः । शिष्टाचारविषयत्वात् दर्शादिवत् ( मू० म० मङ्ग० १ पृ० १६ ) इत्यादावाचारस्य मङ्गलस्य वा अलौकिकत्वम् । [ ख ] उपाध्यायास्तु लोकावगतबलवदनिष्टाननुबन्धित्व विशिष्टेष्टसाधनताश्रयान्यत्वम् इत्याहुः ( मू० म० मङ्ग० १ पृ० १७ ) । [ग] रागतोप्राप्तत्वमित्यस्मद्गुरुचरणाः प्राहुः । [घ] वेदबोधितेष्टसाधनताकत्वमिति मीमांसकाः ( मू० म०१ ) । अलौकिकप्रत्यक्षम् - ( प्रत्यक्षम् ) अलौकिक संनिकर्षजन्यं प्रत्यक्षम् । अत्र संनिकर्षे अलौकिकत्वं च सामान्यलक्षणज्ञानलक्षणयोगज एतदन्यतमत्वम् । विषयताविशेषो वा । यथा धूमत्वज्ञानानन्तरं सामान्यलक्षणप्रत्यासत्त्या जायमानं सर्वे धूमा धूमत्ववन्तः इति धूमत्वाश्रयसकलधूमविषयकं प्रत्यक्षम् ( मु० १ पृ० १२७ ) । अवकीर्णी — ब्रह्मचारी सन् स्त्रीरत: ( जै० सू० वृ० ६।८।२४ ) । अवक्षेपणम् – (कर्म) अपक्षेपष्णवदस्यार्थोनुसंधेयः । अवगाहः —— अन्यवस्तु प्रदेशमध्ये अन्यस्य वस्तुनः प्रवेशोवगाहः ( सर्व० - सं० पृ० ७१ आई० ) । 1 अवगाहनम् - [क] विषयिता । यथा घटवद्भूतलम् इति ज्ञानं घटायवगाहीत्यादाववगाहनं विषयिता भवति । [ ख ] विषयीकरणमित्यपि केचिद्वदन्ति । अवचरः — साधनम् (जै० सू० वृ० ३।१।२१ ) । - अवच्छिन्नत्वम् – १ व्यापकत्वम् ( मू० म० १ ) । यथा हदे वह्निमत्ताबुद्धिनिरूपित प्रतिबन्धकतायां हृदो न वह्निमान् इति निश्चयीयविषयिताया अवच्छिन्नत्वम् ( ग० सामा० ) । अवच्छिन्नत्वावच्छेदकत्वयोः ( स्वरूप संबन्धरूपयोः ) तुल्यवित्तिवेद्यत्वेन साकाङ्क्षत्वेन च परस्परं निरूप्यनिरूपकभावो बोध्यः । तथा चावच्छेदकतानिरूपकता कत्वमेवावच्छिन्नत्वमित्युक्त्यैव निर्वाहेवच्छिन्नत्वनिरुक्तिः शिष्यबुद्धिवैशद्यायेति Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy