________________
न्यायकोशः। पपद्यमानेनार्थेनोपपादककल्पनम् । यथा वृष्ट्या मेघज्ञानम् ( गौ० वृ० २।२।१ )।[ग] यत्राभिधीयमानेर्थे योन्योर्थः प्रसज्यते सोर्थापत्तिः । यथा मेघेष्वसत्सु वृष्टिर्न भवतीति । किमत्र प्रसज्यते । सत्सु भवतीति ( वात्स्या० २।२।१ )। [घ] पुनरनुसंधीयमानशब्दासहकृतमनुपपत्तिज्ञानमिति गदाधरभट्टाचार्याः।[3] उपपाद्यज्ञानेनोपपादककल्पनमर्थापत्तिः। तत्र उपपाद्यज्ञानं करणम् । उपपादकज्ञानं फलम् । येन विना यदनुपपन्नं तत्तत्रोपपाद्यम्। यस्याभावे यस्यानुपपत्तिस्तत्तत्रोपपादकम् । यथा रात्रिभोजनेन विना दिवा अभुञ्जानस्य पीनत्वमनुपपन्नमिति तादृशपीनत्वमुपपाद्यम् । यथा वा रात्रिभोजनस्याभावे तादृशपीनत्वस्यानुपपत्तिरिति रात्रिभोजनमुपपादकम् । अत्र अर्थस्य आपत्तिर्नाम कल्पनेति षष्ठीसमासेन रात्रिभोजनकल्पनारूपायां प्रमितावपत्तिशब्दो वर्तते । अर्थस्य आपत्तिर्नाम कल्पना यस्मादिति बहुव्रीहिसमासेन कल्पनायाः करणभूते पीनत्वादिज्ञानेपि वर्तते । एवं च फलकरणयोरुभयोरर्थापत्तिपदप्रयोगो भवति । सा चार्थापत्तिर्द्विविधा-दृष्टार्थापत्तिः श्रुतार्थापत्तिश्चेति । तत्र दृष्टार्थापत्तियथा इदं रजतमिति पुरोवर्तिनि प्रतिपन्नस्य रजतस्य नेदं रजतमिति तत्रैव निषिध्यमानत्वं सत्यत्वे सति अनुपपन्नमिति रजतस्य मिथ्यात्वं कल्पयति । श्रुतार्थापत्तिर्यथा यत्र श्रूयमाणवाक्यस्य स्वार्थानुपपत्तिमुखेनार्थान्तरकल्पनं सा । यथा तरति शोकमात्मविदित्यत्र श्रुतस्य शोकशब्द- . वाच्यबन्धजातस्य ज्ञाननिवर्त्यस्यानुपपत्त्या बन्धस्य मिथ्यात्वं कल्प्यते। श्रुतार्थापत्तिश्च द्विविधा-अभिधानानुपपत्तिरभिहितानुपपत्तिश्च । तत्र यत्र वाक्यैकदेशश्रवणे अन्वयाभिधानानुपपत्त्या अन्वयाभिधानोपयोगि पदान्तरं कल्प्यते तत्राभिधानानुपपत्तिः । यथा द्वारमित्यत्र पिधेहीत्यध्याहारः। अभिहितानुपपत्तिस्तु-यत्र वाक्यावगतोर्थोनुपपन्नत्वेन ज्ञातः सन्नर्थान्तरं कल्पयति तत्र द्रष्टव्या । यथा स्वर्गकामो ज्योतिष्टोमेन यजेतेत्यत्र क्षणिकतया अवगतज्योतिष्टोमस्य स्वर्गसाधनत्वानुपपत्त्या मध्यवर्त्यपूर्व कल्प्यते। अत्र नैयायिकाः-अर्थापत्ति प्रमाणान्तरम् । किंतु व्यतिरेकव्याप्त्या अनुमाने अन्तर्भावादिति । वेदान्तिनां मते तु व्यतिरेकव्याप्ति म यत्र
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org