________________
१०४.
न्यायकोशः। [ख] अन्यथाकृतस्य पुनस्तदवस्थापादकः संस्कारः (त० सं० )। पूर्वसंयोगविजातीयसंयोगनाशकत्वे सति पूर्वसंयोगसजातीयसंयोगजनका . इति समुदितार्थः । अत्र क्रियावारणाय सत्यन्तं दलं दत्तम् । विभागवारणाय विशेष्यदलम् (वाक्य० गु०. पृ० २२)। [ग] आश्रये पूर्वावस्थापादकः संस्कारः । स यथा आकृष्टतरुशाखादेः पूर्वावस्था
जनयति ( प्र० प्र०)। [घ ] स्वोत्पत्त्यवस्थापादको गुणः । स्नायुः—सूक्ष्मनाडी। स्नेहः-१ (गुणः) [क] स्नेहत्वजातिमान् (प्र० प्र०) । स्नेहश्चिकणता
जलमात्रवृत्तिः चणकचूर्णा दिव्यङ्गयश्च । पयोधृततैलादौ स्नेहोपलम्भस्तु पयआद्यन्तर्गतजलोपाधिकः जलगत एवोपलभ्यते । स्नेहो जलपरमाणुगतो नित्यः जलब्यणुकादिरूपकार्यगतः अनित्यः ( त० को०) (प्र० प्र०) ( प्रशस्त० २ पृ० ३३ ) ( त० सं०) ( भा० प०) ( वाक्य० )। अत्र भाष्यम् स्नेहोपां विशेषगुणः संग्रहमृजादिहेतुः । अस्यापि गुरुत्ववन्नित्यानित्यत्वनिष्पत्तयः (प्रशस्त० २ गु० पृ० ३३) इति । मृजा शुद्धिः । अत्र विचार्यते । न च सांसिद्धिकद्रवत्वादेव संग्रहसंभवे किं स्नेहेन इति वाच्यम् । चणकचूर्णा दिना जलद्रवत्वयोरुत्कर्षस्यानाधानादन्यस्य च संग्रहहेतोरभावे तदुत्कर्षस्याकस्मिकत्वप्रसङ्गात् । अतः स्नेह आवश्यकः ( ५० च० ) इति । [ख] चूर्णादिपिण्डीभावहेतुर्गुणः ( त० सं० )। यथा प्रदीपः स्नेहमादत्ते दशयाभ्यन्तरस्थया इत्यादौ तैलसंयुक्तजलगतः स्नेहः । जले स्नेहो द्विविधः प्रकृष्टस्नेहः अपकृष्टस्नेहश्च । तत्र तैलादौ प्रतीयमानः प्रकृष्टस्नेहो दीपादिज्वालादेरनुकूलः । पानीयगतस्तु अपकृष्टस्नेहो वह्निं नाशयति ( मु०गु० पृ० २३२ )। [ग] स्निग्धधीर्यविशिष्टार्थे स्नेहश्चिक्कणता च सः ( ता० र० श्लो० ४८ ) । अत्रेदं बोध्यम् । सत्यपि द्रवत्वे द्रुतसुवर्णादिभिः सत्यपि च स्नेहे हिमकरकादिभिः पिण्डीभावाजननात् स्नेहसहितमेव द्रवत्वं पिण्डीभावकारणम् ( त० व० पृ० २३० ) इति । यद्वा पिण्डीभावे स्नेहस्यैवासाधारणकारणत्वम् । न तु जलादिगत
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org