SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ न्यायकोशः। - स एवाभिचारपदार्थः । तस्य पापजनकत्वम् । एवं च श्येनेनाभिचरन् यजेतेत्यादौ श्येनस्य हिंसात्वाभावेन बलवदनिष्टाननुबन्धित्वमपि विधिप्रत्ययेन बोध्यत इत्याहुः । अत्रेदमाकूतम-प्रथमं श्येनः । ततस्तजन्यमपूर्वम् । ततः खड्गाघातादिरूपा हिंसा । तदव्यवहितोत्तरमेव मरणमिति । अत्र श्येनस्य वैधत्वात्पापाजनकत्वेपि अग्रिमपापं प्रतिसंधाय सन्तो न प्रवर्तन्त इति ( दि. ) ( राम० २२९)। अभिजनः-यत्र पूर्वैरुषितं सोभिजनः (सिद्धान्तकौं० पृ० १३८ तद्धित०)। अभिधा-१ संकेतवदस्यार्थीनुसंधेयः (दि. १)। २ संकेतग्राह्यः शक्ति.. रूपः अतिरिक्तः पदार्थ इति मीमांसका आहुः (न्या० म० ४।३)। अभिधाभावना-[क] फलजनकव्यापारानुकूलव्यापाररूपा शब्दनिष्ठा भावनेति भट्टाः । [ख] प्रेरणापरपर्याया पुरुषप्रवृत्तिरूपार्थभावना भाव्या भावना ( सर्व० सं० पृ०,२६४ जै० )। अभिधेयत्वम्-[क] भगवदिच्छारूपशब्दशक्तिविषयत्वम् । तच्च सर्वत्रैव वर्तते सर्वस्यैव भगवदिच्छाविषयत्वात् । वस्तुपदशक्यत्वात् (न्या० म० २।१९)। [ख] शब्दशक्तिविषयत्वम् (त० प्र० २) (दि. १)। [ग] शब्दशक्यत्वम् ( दीधि० २)। यथा घटपटादेः सर्वस्याभि धेयत्वम् । अभिनयः- १ साक्षादिवाकारादिप्रदर्शिका हस्तादिक्रिया । यथा . हस्तचेष्टादिना बदरघटाद्याकारेण अल्पस्तनी स्थूलस्तनी इति प्रदर्शनम् . (काव्य० टी० २) । २ अभिलापकशब्दोच्चारणम् । यथा-यत्र धूमस्तत्र वह्निः इति व्याप्तेरभिनयः इत्यादौ ग्रन्थे अभिनयशब्दस्यार्थः (त० दी० २ पृ० २०)। यथा वा पर्वतो वह्निमान् इत्यनुमितेरभिनयः । इत्यादौ ग्रन्थे अभिनयशब्दस्यार्थः ( सि० च० २ पृ० २३)। अभिनिवेशः-(क्लेशः) पूर्वजन्मानुभूतमरणदुःखानुभववासनाबलात्सर्वस्य प्राणभृन्मात्रस्या कृमेरा विदुषः संजायमानः शरीरविषयादेर्मम वियोगो Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy