________________
१०१६
न्यायकोशः। ज्ञानमित्यस्यार्थश्च इन्द्रियसंबद्धविशेष्यकं सामान्यप्रकारकं ज्ञानम् इति । : अत्रार्थे व्युत्पत्तिः सामान्य लक्षणं निरूपकं विषयः यस्य तत् ( मु०
१ पृ० १३० ) ( दीधि० २ पृ० ८० ) इति । इदानीं सामान्यलक्षणज्ञानलक्षणयोः संनिकर्षयोर्भेद उच्यते। तत्र सामान्यलक्षणसंनिकर्षः सामान्याश्रयसकलव्यक्तिविषयकं ज्ञानं जनयति । ज्ञानलक्षणसंनिकर्षस्तु यस्य सामान्यस्य ज्ञानं संनिकर्षः अस्ति तस्यैव ज्ञानं जनयति ( भा० ५० ) ( मु० ) इति । अथ कारणतावच्छेदकभेदेन कार्यतावच्छेदकभेदेन च तयोर्भेद उच्यते । तत्र सामान्यलक्षणायाः कार्य. कारणभावश्च तत्तत्संबन्धावच्छिन्नघटत्वादिप्रकारिताशालिज्ञानत्वेन स्वरूपतस्तत्संबन्धावच्छिन्नघटत्वादिप्रकारिताकतत्तत्संबन्धावच्छिन्नघटत्वाद्याश्रयताशालिमुख्यविशेष्यकप्रत्यक्षत्वेन इति । ज्ञानलक्षणायाः कारणतावच्छेदकं तु सामान्यतः संसर्गावच्छिन्नघटत्वादिविषयताशालिज्ञान. त्वम्। घटत्वादिप्रकारकज्ञानादिव घटत्वादिविषयक (घटत्वादिविशेष्यक)ज्ञानादपि घटत्वादिप्रकारकोपनीतभानोदयात् । केचित्तु ज्ञानलक्षणायाः सप्रकारकघटत्वादिज्ञानत्वं कारणतावच्छेदकम् इत्याहुः । भाषापरिच्छेदकारादयस्तु संसर्गावच्छिन्नतद्विषयताशालिज्ञानत्वेन कारणता योगजधर्माजन्यसामान्यलक्षणाप्रत्यासत्त्यजन्यतद्विषयकप्रत्यक्षत्वेन कार्यता इत्याहुः । अत्र तद्विषयिता चालौकिकी ग्राह्या। तेन तल्लौकिकप्रत्यक्षे न
व्यभिचारः ( म० म० २ पृ० २७१)। सामान्यलक्षणा-(प्रत्यासत्तिः ) सामान्यलक्षणशब्दवदस्यार्थोसंधेयः । सामान्यविधिः-(विधिः) १ विशेषापवाद्यो विधिः । यथा कौण्डिन्याय
तक्रम् इति विशेषापवाद्यः सर्वेभ्यो दधि दीयताम् इति सामान्यविधिः । यथा वा मतविशेषे अग्नीषोमीयं पशुमालभेत इति विशेषापवाद्यो न हिंस्यात्सर्वा भूतानि इति हिंसासामान्यनिषेधविधिः सामान्यविधिः । शिष्टं सामान्यशब्दे दृश्यम् । २ मीमांसकास्तु अनारभ्य विधिः । यथा सामिधेन्यूचा साप्तदश्यस्यानारभ्याधीतत्वेन सामान्यविधिः । यथा वा यस्य पर्णमयी जुहूर्भवति न स पाप५ श्लोक शृणोति ( तैत्ति०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org