________________
न्यायकोशः।
१००३ साध्यत्वम्-साध्यता। साध्यप्रसिद्धिः-[क] सिद्धिः । [ख] साध्यस्य ज्ञानम् । साध्यम्-१ साधनीयम् । तच्च साध्यत्ववत् । यथा पर्वतो वह्निमान् धूमात्
इत्यादौ वह्निः साध्यम् ( मु० २ )। साध्यं च द्विविधम् धर्मिविशिष्टो वा धर्मः । यथा शब्दस्यानित्यत्वम् इति । धर्मविशिष्टो वा धर्मी । यथा अनित्यः शब्दः इति ( वात्स्या० १।१।३६) । २ [क] व्यवहारशास्त्रज्ञास्तु अष्टादशविवादेषु प्रमाणादिनोद्भाव्यः पदार्थः । साक्षिलेख्यानुमानरूपक्रियादिना साधनीयं यत् तत् ( रकम इति प्र०)। यथा ऋणादिषु विवादेषु स्थिरप्रायेषु निश्चितम् । ऊने वाभ्यधिके वार्थे प्रोक्ते साध्यं न सिध्यति ॥ ( कात्या० वीरमित्रो० पृ० १२४ ) इत्यादौ साध्यशब्दस्यार्थः। [ख] साध्याहः प्रतिज्ञेयः पक्षः । तदुक्तं बृहस्पतिना प्रतिज्ञादोषनिर्मुक्तं साध्यं सत्कारणान्वितम् । निश्चितं लोकसिद्धं च पक्षं पक्षविदो विदुः ॥ इति । अत्र साध्यं साध्याहम् । प्रत्यर्थिधर्मविशिष्टं धर्मिवचनम् इति यावत् ( वीरमित्रो० लेख्य० पृ० ६९ )। ३ पक्षः (गौ० वृ० १।१।३८)। यथा उदाहरणापेक्षस्तथेत्युपसंहारो न तथेति वा साध्यस्योपनयः (गौ० १।१।३८ ) इत्यादौ साध्यशब्दस्यार्थः पक्षः । ४ शाब्दिकास्तु लिङ्गसंख्यानन्वयिनी क्रिया । यथा पचति करोति इत्यादिक्रिया इत्याहुः । अत्रोक्तं हरिणा साध्यरूपा क्रिया तत्र धातुरूपनिबन्धना (वाक्यप० ) इति । शिष्टं तु क्रियाशब्दव्याख्याने दृश्यम्। अत्र साध्यत्वं च क्रियान्तराकाङ्कानुत्थापकतावच्छेदकरूपवत्त्वम् इति बोध्यम्। ५ पौराणिकास्तु द्वादशसंख्यको गणदेवताविशेष इत्याहुः । तदुक्तम् मनोमन्ता तथा प्राणो भरोपानश्च वीर्यवान् । निर्भयो नरकश्चैव दंशो नारायणो वृषः ॥ प्रभुश्चेति समाख्याताः साध्या द्वादश देवताः इति। . ६ मौहूर्तिकाश्च स्वशास्त्रीययत्किचित्संकेतविषयः । यथा विष्कम्भादिषु ( २७ ) योगेषु द्वाविंशो योगविशेषः इत्याहुः । ७ मात्रिकादयस्तु स्वानुकूलताग्राहकः पदार्थः मन्त्रविशेषादिः इत्यङ्गीचक्रुः । अत्रोक्तम् सिद्धः साध्यः सुसिद्धोरिः क्रमाज्ज्ञेया मनीषिभिः ( वाच० ) इति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org