SearchBrowseAboutContactDonate
Page Preview
Page 1016
Loading...
Download File
Download File
Page Text
________________ न्यायकोशः। नित्याकाशसाधादमूर्तत्वान्नित्यः स्यात् । विशेषो वा वक्तव्यः ( गौ० वृ० ५।१।२ ) इति । [ग] साधर्म्यण स्थापनाहेतुदूषकमुत्तरम् । यथा आत्मा सक्रियः क्रियाहेतुगुणवत्त्वाल्लोष्टवत् इति स्थापनायामुत्तरम् । यदि सक्रियसाधात्सक्रियस्तदा विभुत्वरूपानिष्क्रियसाधर्म्यानिष्क्रिय एव किं न स्यात् । न चात्र किंचिद्विनिगमकमस्ति इति । क्रियाहेतुगुणश्चात्र क्रियाजनकवायुसयोगादिरेव इति बोध्यम् ( नील० १ पृ० ४३ )। साधोदाहरणम्-अन्वय्युदाहरणम्। .. . साधोपनयः-अन्वय्युपनयः। साधारणः-१ ( हेत्वाभासः दुष्टहेतुः )। [क] सपक्षविपक्षवृत्तिर्हेतुः ( भा० प० २ श्लो० ७४ )। यथा पर्वतो वह्निमान्प्रमेयत्वात् इत्यादौ प्रमेयत्वं हेतुः साधारणः । अत्र प्रमेयत्वं हेतुर्हि सपक्षे महानसे विपक्षे महाह्रदादौ च वर्तते । अतः साधारणः (त० सं० )। एवं पर्वतो धूमवान् वह्नः इत्यादावपि । वह्निर्हि सपक्षे महानसे विपक्षे तप्तायःपिण्डादौ च वर्तते । अतः साधारणः ( त० कौ० २ पृ० १३ ) । इदं लक्षणं च प्राचीनमतमनुरुध्योक्तम् । अत्र प्राचीनमते साधारणहेतुज्ञानेन साध्यसंदेहाव्याप्तिग्रहो न भवति इत्याशयः ( गौ० वृ० १।२।५ )। अयं चानैकान्तिकप्रभेदः । तल्लक्षणं च वक्ष्यमाणं साधारणत्वमेव इति बोध्यम् । अर्वाञ्चो नैयायिकास्तु साधारणमेव हेतुं सव्यभिचारपदेन व्यवहरन्ति इति दीधितिकृदाह ( दीधि० २ सव्य० पृ० १८३ )। [ख] साध्यात्यन्ताभाववति साध्यवदन्यस्मिन्वा वर्तमानो हेतुः। यथा शब्दो नित्यो निःस्पर्शत्वात् इत्यादौ निःस्पर्शत्वं साधारणः (गौ० वृ० १।२।५) (मु० २ पृ० १५९ ) ( त० सं० ) (वाक्य०)। अत्र निःस्पर्शत्वं हेतुर्हि अनित्ये रूपादौ वर्तत इति साधारणो भवति इति ज्ञेयम् । २ ( जातिः ) नित्यसमविशेषः। स च स्वव्याघातकमुत्तरं भवति ( सर्व० पृ० १५३ पूर्ण० )।३ व्यवहारशास्त्रज्ञास्तु अनेकस्वत्वकमेकं धनं साधारणम् । यथा अलंकारोपि यो येन धृतः स तस्यैव । अधृतः साधारणो विभाज्य एव ( याज्ञ० अ० २ श्लो० १२२ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy