SearchBrowseAboutContactDonate
Page Preview
Page 1012
Loading...
Download File
Download File
Page Text
________________ न्यायकोशः। ज्ञानादेरभावः फलम् (मु० २ पृ० १६२)। अथ वा साधनाप्रसिद्धिग्रहदशायाम् हेतुतावच्छेदकविशिष्टे साध्यव्याप्तिग्रहप्रतिबन्धः फलम् (नील० २ पृ० २६ )। शिष्टं तु व्याप्यत्वासिद्धिशब्दव्याख्यानावसरे संपादितं तत्तत्र दृश्यम् । साधनासिद्धिः-साधनाप्रसिद्धिः। - साधर्म्यदृष्टान्तः–अन्वयव्याप्तिग्रहणस्थलम् । यथा धूमेन वह्नयनुमाने महानसः । यत्र यत्र धूमस्तत्राग्निर्यथा महानसः इति (प्र० च० पृ० २८)। अत्राधिकं तु दृष्टान्तशब्दे अन्वयदृष्टान्तशब्दे च दृश्यम् । साधर्म्यनिदर्शनम्-[क] अन्वयदृष्टान्तः । [ख] अनुमेयेन सामान्येन लिङ्गसामान्यस्यानुविधानदर्शनम् । तद्यथा यत् क्रियावत् तद्रव्यं दृष्टं यथा शरः इति ( प्रशस्त० २ पृ० ४८)। [ग] अन्वय्युदा हरणम्। साधर्म्यनिदर्शनाभासः-(निदर्शनाभासः ) लिङ्गानुमेयोभयाश्रयासिद्ध्य ननुगतविपरीतानुगतः । यथा यदनित्यं तन्मूतं दृष्टं यथा परमाणुः यथा कर्म यथाकाशम् यथा तमो घटवत् यन्निष्क्रियं तदद्रव्यं दृष्टम् इति च (प्रशस्त० २ पृ० ४८)। एवमन्वयदृष्टान्ताभासशब्दोपि व्याख्येयः। साधर्म्यम्-[क] समानधर्मः । यथा कमलमिव सुन्दरं मुखम् इत्यादौ सौन्दर्य मुखकमलयोः साधर्म्यम् । यथा वा षण्णां पदार्थानां साधर्म्यवैधर्म्यतत्त्वज्ञानं निःश्रेयसहेतुः ( प्रशस्त०) इत्यादौ साधर्म्यशब्दार्थः ( न्या० कन्द० पृ० ६)। [ख] अनुगतो धर्मः ( वै० उ० ११११४ )। समानो धर्मः इति फलितोर्थः (मु० १ पृ० ४५ । यथा अस्तित्वम् ज्ञेयत्वम् प्रमेयत्वम् अभिधेयत्वं च द्रव्यादीनां सप्तानां पदा र्थानां साधयं भवति । अत्र ज्ञेयत्वाभिधेयत्वादिशब्दानामीश्वरीयज्ञानविषयत्वाभिधाविषयत्वादिरूपोर्थः केवलान्वयित्वोपपत्त्यर्थ स्वीकर्तव्यः । भवति च तदेव सप्तपदार्थानां लक्षणम (मु० १ पृ० ४५)। वस्तुतः विषयत्वमेव सप्तपदार्थानां लक्षणम् । तेन ईश्वरानङ्गीकर्तृमतेपि जीवज्ञानविषयतादिकमादाय लक्षणसमन्वयः इत्यवधेयम् । यथा वा कारणत्वं Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy