SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् । ५५७ ८ वृषाकपिः, शम्भुः १० हरणः, ११ ईश्वरश्चेति, इति महाभारते दानधर्मः ॥ अपि च 'जैकपादहिब्रघ्नो विरूपाक्षः सुरेश्वरः । जयन्तो बहुरूपश्च व्यम्बकोऽप्यपराजितः ॥ वैवस्वतश्च सावित्री हरो रुद्रा इमे स्मताः । इति जटाधरः ॥ अन्यच्च— अजैकपादहिब्रध्नस्त्वष्टा रुद्रश्च वीर्यवान् । त्वष्टुभैवात्मजः पुत्रो विश्वरूपो महातपाः ॥ हरश्च बहुरूपश्च त्र्यम्बकचापराजितः । वृषाकपिश्च शम्भुश्च कपर्दी रेवतस्तथा ॥ एकादशैते कथिता रुद्रास्त्रिभुवनेश्वराः । इति गारुडे ६ तमेऽध्याये ॥ श्रमिपुराणे 'त्वष्टृ' स्थाने 'कृत्तिवासाः' इत्युक्तम् ॥ अन्यच्च— 'प्रजैकपादहिब्रग्नो विरूपाक्षोऽय रैवतः । हरश्च बहुरूपच त्र्यम्बकश्च सुरेश्वरः ॥ सावित्र्यश्व जयन्तश्च पिनाकी चापराजितः । एते रुद्राः समाख्याता एकादश गणेश्वराः इति मात्स्ये ५ मेऽध्याये' इति शब्दकल्पद्रुमकोषस्य १६७ तमे पृष्ठे ॥ हेमाद्रौ ब्रह्माण्डपुराणे व रुद्राः समाख्यातास्तेऽत्र यथाक्रमं स्त्रीपुत्रनामसहिता निर्दिश्यन्ते । तथा हि रुद्रो भवश्च शर्वश्च ईशः पशुपतिस्तथा । भीम उप्रो महादेव एते रुद्राः प्रकीर्तिताः ॥ जटिलाश्चर्मवसनाः सर्वे खट्वाङ्गशूलिनः । तेषां भार्याश्च पुत्रांश्व नामतः कथयामि ते ॥ सौवर्चलाऽङ्गवादा च विकेशी च शिवा तथा । स्वाहा दिशा च दीक्षा च रोहिणी च तथा क्रमात् ॥ ताश्व स्त्रीवेषधारिण्यः सर्वाभरणभूषिताः। रुद्रपत्म्य इमाश्वाष्टौ पुत्रश्च शृणु नारद ॥ शनैश्वरश्च शुक्रश्च लोहिताङ्गो मनोजवः । वसन्तः स्वगः सन्तानो बुधश्चैव यथाक्रमम् ॥ इति हेमाद्रेर्दानखण्डे ७४५ तमे पृष्ठे ॥ षडभिज्ञः ( १।१।१४ ) - श्रभिधर्मकोषोकाः षडभिज्ञा यथा १ ऋद्धि श्रोत्र मनः- पूर्व निवास - च्युत्युपपत्क्षयेत् ज्ञानसाक्षा क्रियाभिज्ञा षड्विधाः । २ दिग्यश्रोत्रज्ञान साक्षात्क्रियाभिज्ञा । ३ चेतःपर्यायज्ञान साक्षात्क्रियाभिज्ञा । ४ पूर्व निवासानुस्मृतिज्ञान साक्षात्क्रियाभिज्ञा । ५ च्युत्युपपादनज्ञानसाक्षात्कि - याभिज्ञा । ६ श्राश्रवक्षयज्ञान साक्षात्क्रियाभिज्ञा' । इति अभिधर्मकोषः ७१४३ ॥ दशबलः (१।१।१४ ) - श्रभिधर्मकोषे दशबलानि बुद्धस्यान्यान्येवोक्तानि । तानि यथा'ध्यानाध्यक्षा विमोक्षेषु ध्वान्तौ च प्रतिपत्सु वा । दश द्वे संवृतिज्ञाने षड्वा दश वा क्षये ॥ १ स्थानासहज्ञानबलम् | २ कर्मविपाकज्ञानबलम् । ३-३ ध्यान- विमोक्ष Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy