________________
परिशिष्टम् ।
新款
द्वादशैते तु तुषिता देवाः स्वारोचिषोऽन्तरे' । इति सारसुन्दरीवचनाद् द्वादश । तोषः प्रतोषः सन्तोषो भद्रश्शान्तिरिङस्पतिः । इष्मः कविर्विभुः स्वाहासुदेवो रोचनो द्विषट् । तुषिता नाम ते देवा श्रासन् स्वायम्भुवोऽन्तरे' ॥ इति शब्दार्थचिन्तामणिघृतवाक्योक या पत्रिंशत् ॥
इति वाचस्पत्याभिधानस्य ३३३७ तमे पृष्ठे, शब्दकल्पद्रुमस्य ६४० पृष्ठे च ॥ ये च द्वादश इति मन्यन्ते, त एकैकमन्वन्तरापेक्षया द्वादशेति वर्णयन्ति समयभिप्रायेण षटत्रिंशदिति विवेकः । तदभिप्रायेणैव 'पत्रिंशत्तषिता मता :" इत्युकं टिप्पणे इत्यवधेयम् ॥
आभास्वराः ( १/१/१० ) - आभास्वराः ' द्वादश । तथाहि'श्रात्मा ज्ञाता दमो दान्तः शान्तिर्ज्ञानं शमस्तपः ।
कामः क्रोधो मदो मोहो द्वादशाभास्वरा इमे ॥
इति वाचस्पत्याभिधाने ७५४ तमे पृष्ठे, शब्दकल्पद्रुमस्य १७९ तमे पृष्ठे च ॥ अनिलः ( १1१1९० ) -- अग्निपुराणे वायोरूनपञ्चाशन्नामान्युक्तानि तानीह प्रोच्यन्ते । तथा हि
'एकज्योतिष द्विज्र्ज्योतित्रिज्योतिर्ज्योतिरेव च । एकशको द्विशकथ त्रिशक्रख महाबलः ॥ इन्द्रश्व गत्यदृश्यश्च ततः पतिसकृत्परः । मितश्च संमितश्चैव सुमतिश्च महाबलः ॥ ऋतजित्सत्यजिच्चैव सुषेण: सेनजित्तथा । श्रग्निमित्रोऽनमित्रश्च पुरुमित्रोऽपराजितः ॥ ऋतश्च ऋतवादश्व धर्ता च धरणो ध्रुवः । विधारणो नाम तथा देवदेवो महाबलः ॥ इक्षवाप्यदृक्षच एते दश मिताशिनः । व्रतिनः प्रसदृक्षश्च समरश्च महायशाः ॥ बाता दुर्गे धृतिर्भी मस्त्वभियुक्तस्त्व पारसः । द्युतिपुरनाय्योऽथ वासः कामो जयो विराट् ॥ इत्येकीनाञ्च पञ्चाशम्मरुतः पूर्वसम्भवाः ' ॥ इति वह्निपुराणे गणनामाध्यायः ॥
हेमाद्री दानखण्डे वायुपुराणोकान्ये कोनपञ्चाशन्मदन्नामानि तेषां सप्त गणाची - कास्तेऽत्र निर्दिश्यन्ते । तथा हि- मरुन्नामानि तु वायुपुराणे--- ततस्तेषां तु नामानि मातापित्रोः ? प्रचक्रतुः । तद्विधैः कर्मभिचैव मरुतान्तो पृथक् पृथक् ॥ शुक्रज्योतिस्तथाऽऽदित्यश्चित्रज्योतिस्तथाऽपरः ।
I
सत्यज्योतिश्च ज्योतिष्मान् सत्यद्दा ऋतपास्तथा ॥
१. इदं 'आमास्वराश्चतुःषष्टिः' इति टिप्पणीवचनविरुद्धमपि ६४ भेदानां काप्यनुपलम्भेर्द्वादशैवात्र निर्दिष्टाः । ६४ भेदान् सूचयतो विदुषः परं कृतो भवेयम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org