________________
निघण्टुशेषः।
२६५ पूगे गुवाकः क्रमुकः, पूगी च (खपुरा) नीलवल्कलः । घण्टाऽस्य फलमद्वेग, चिक्के तु तत्र चिक्कणम् ॥ २०६८ विन्ताके तु रजःपुष्पो, जम्बूलः क्रमुकच्छदः। हिन्ताले तु तृणराजो, राजवृक्षो लताङ्करः ॥ २०६९ ताल्यां तु मृत्युपुष्पा स्यादेकपत्रफलापि च ।। खजूरतालखर्जूरीतालीहिन्तालकेतकाः॥ २०७० क्रमुको नालिकेरश्च, स्युरेते तृणपादपाः ॥ २०७१ इत्याचार्यश्रीहेमचन्द्रविरचिते निघण्टुशेषे प्रथमो वृक्षकाण्डः।
सिन्दुवारे तु निर्गुण्डी, सीन्दुको नीलसन्धिकः । शीतसहा च सुरसा, चेन्द्राणी सिन्दुवारकः ॥ २०७२ सा नीला वनशेफाली, सुपुष्पा नीलमञ्जरी । श्वेता तु श्वेतसुरसा, गोलोमा भूतकेश्यपि ॥ २०७३ शेफालिकायां सुवहा, निर्गुण्डी नीलिकासुता । सुरसा रक्तवृन्ता च, श्वित्रघ्नी पुष्पवर्षिणी ॥ २०७४ सा तु शुक्ला भूतकेशी, सत्यनान्नी बहुक्षमा । प्रियङ्गौ प्रियकः कः, प्रियवल्ली प्रियालता ॥ २०७५ विष्वक्सेना गन्धफली, कारम्भा फलिनी फली । गुन्द्रा गोवन्द्रनी श्यामा, योषाह्वा पर्णभेदिनी ॥ २०७६
Jain Education International For Private & Personal Use Only
www.jainelibrary.org