________________
२५६
निघण्टुशेषः। श्वेतेऽत्र श्वतमरिचो, रक्ते तु मधुशिकः । तिनिशे रथकृन्नेमिर्वञ्जुलो रथसाधकः ॥ १९७८ दीर्घवृक्षश्चककरो, रथनामातिमुक्तकः । अश्मगर्भः सर्वसारः, क्रमसंधारणोऽपि च ॥ १९७९ पलाशे किंशुकः पर्णः, वरपर्णस्त्रिपत्रकः ।। त्रिवृन्ताख्यो रक्तपुष्पो, बीजस्लेहः समिद्वरः ॥ १९८० क्षारश्रेष्ठो वातपोथो, याज्ञिको ब्रह्मपादपः। धवे भारोद्वहो गौरः, सकटाक्षो धुरंधरः ॥ १९८१ कुलावो नन्दिनश्चापि, सितः कृष्णश्च स द्विधा । श्रीपा काश्मरी कृष्णा, वृन्तिका मधुपर्णिका ।। १९८२ गम्भारी सर्वतोभद्रा, कटफला भद्रपर्णिका । विहारी कुमुदाहारी, महाकुम्भी च कश्मरी ॥ १९८३ नित्यभद्रा महाभद्रा, काश्मर्यो मधुमत्यपि । सप्तच्छदे शुक्तिपर्णो, गुच्छः पुष्पः सुवर्णकः ॥ १९८४ स्थूलपर्णो दीपवृक्षः शारदो विषमच्छदः । मदगन्धिर्विशालत्वग्गजद्विद शाल्मलीदलः ॥ १९८५ शिरोरुर्गेहविटपः, सुमनो ग्रहनाशनः । आरग्वधे कृतमालः, कर्णिकारः सुवर्णकः ॥ १९८६ पीतपुष्पो दीर्घफलः, शम्पाकश्चतुरङ्गुलः। व्याधिहा रेवतः स्थूलः, प्रग्रहो राजपादपः ॥ १९८७
Jain Education International For Private & Personal Use Only
www.jainelibrary.org