SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ निघण्टुशेषः । २५३ १९४८ शाखाम्लो वेतसोऽम्लोऽम्लस्तिन्तिडीको रसाम्लकः । स शङ्खद्रावको हीनो, लौहद्रावक उत्तमः ॥ तावेव तु शतवेधिसहस्रवेधिनौ क्रमात् । कपित्थे वानरावासो, गन्धपत्रः कपिप्रियः ॥ १९४९ पुष्पफलो दधिफलो, दधित्थग्राहिमन्मथाः । अक्षिस्यंदो दन्तशठो, राजाम्रश्विरपाक्यपि ॥ अश्मन्तके श्लक्ष्णपत्रः, पाषाणावूक इन्द्रकः । अम्लपत्रस्ताम्रपत्रः, कुशली यमलच्छदः ॥ नारङ्गे स्यान्नागरङ्गस्त्वक्सुगन्धो मुखप्रियः । ऐरावतो योगसारो, योगी तक्राधिवासनः ॥ खदिरे स्याद्रक्तसारः, कण्टकी दन्तधावनः । गायत्री बालपत्रश्च, जिह्वाशल्यं क्षितिक्षमः ॥ सिते तु तत्र कदरः, कार्मकः कुब्जकण्टकः । सोमवल्को नेमिवृक्षः, श्यामसारः पथिद्रुमः ॥ १९५४ विट्खदिरे त्विरिमिदो, गोधास्कन्धोऽरिमेदकः । अरिमारोऽरिमः पूत्यरिमेदो मुखशोधनः ॥ शाल्मली तूलिनी मोचा, पिच्छिला विरजा विता । कुक्कुटी पूरणी रक्तकुसुमा घुणवल्लभा ॥ कण्टकाढ्याऽनलफली, पिच्छा तु तस्य वेष्टकः । कुशाल्मलौ शाल्मलिका, रोचनः कूटशाल्मलिः ॥ १९५७ १९५५ १९५६ १९५० १९५१ १९५२ १९५३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy