SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ २३८ नाममालाशिलोञ्छे मरकाण्डः उपवस्त्रमौपवस्त्रमुपवीते प्रचक्षते । ब्रह्मसूत्रं पवित्रञ्च, वाल्मीको द्वाविपावपि ॥१८२३॥ मौत्रावरुण्यादिकवी', पशुरामोऽपि भार्गवे । योगीशो याज्ञवल्क्योऽपि, दाक्षीपुत्रोऽपि पाणिनौ॥२४॥ स्फोटायनः स्फौटायनः, कात्यो' वररुचौ तथा । कारेणवैः पालकाप्ये, चाणक्यश्चणकात्मजे ॥१८२५॥ वैशेषिके कर्णादोऽपि, जैनोऽनैकान्तवाद्यपि । चार्वाके लौकोयतिकः, कृषिः प्रसतमित्यपि ॥१८२६॥ न्यासार्पणे परिदानं, वणिक् प्रापणिकः स्मृतः । अयुते नियुतं' पोते, स्मृतं प्रवहणं' बुधैः ॥१८२७॥ कर्णोऽपारित्रे दुर्गस्य, गवेश्वरोऽपि गोमति । कर्षके क्षेत्रजीवोऽपि, कोटीशो लोष्टमेदनः ॥१८२८॥ मार्दीकमपि मद्येऽनुतर्षोऽपि चषके स्मृतः । कुविन्दे तन्त्रवायोऽपि, वेमा व्योमापि कीर्त्यते ॥१८२९॥ रजको धावकोऽप्युक्तः, पादत्राणश्च पादुका । तैलिकस्तैलंतुदोऽपि, रथकारोऽपि वर्द्धकिः ॥१८३०॥ (१) ' प्रभृतः ' इत्यभिधानचिन्तामणौ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy