SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ [ विष्णुः ( ५२० ) 1 विष्णुः अग्नाविष्णू वै देवानामन्तभाजौ । कौ० १६ ॥ ८ ॥ आग्नावैष्णवमेकादशकपालं पुरोडाशं निर्वपति । श० ३ । १ । ३ । १ ॥ ५ । २ । ३ । ६ ॥ यज्ञो विष्णुः स देवेभ्य इमां विक्रान्ति विचक्रमे यैषामियं विक्रान्तिरिदमेव प्रथमेन पदेन पस्पाराथेदमन्तरिक्षं द्वितीयेन दिवमुत्तमेन । श० १ । ९ । ३ । ९ यज्ञो वै विष्णुः स देवेभ्य इमां विक्रान्ति विचक्रमे यैषामियं विक्रान्तिरिदमेव प्रथमेन पदेन पस्पाराथेदमन्तरिक्षं द्वितीयेन दिवमुत्तमताम्वेवैष एतस्मै विष्णुर्यज्ञो विक्रान्ति विक्रमते । श० १ । १ । २ । १३ ॥ इमे वै लोक विष्णोर्विक्रमणं विष्णोर्विक्रान्तं विष्णोः क्रान्तम् । श० ५ । ४ । २ । ६ ॥ स (विष्णुः ) इमाँलो कान्विचक्रमे ऽथो वेदानथो वाचम् । ऐ० ६ । १५ ॥ " , " " 39 31 " ܙܕ ,, F 55 33 59 वामनो ह विष्णुरास (विष्णुपुराणे ३ । १ । ४२-४३ :- मन्वन्तरे तु संप्राप्ते तथा वैवस्वते द्विज । वामनः कश्यपाद्विष्णुरदित्यां संबभूव ह ॥ त्रिभिः क्रमैरिमाँल्लोकाञ्जित्वा येन महात्मना । पुरन्दराय त्रैलोक्यं दत्तं निहतकंटकम् ॥ ) | श० १ । २ । ५ । ५ ॥ स हि वैष्णवो यद्वामनः ( गौः ) । श० ५ । २ । ५ । ४ ॥ वैष्णवं वामनं (पशु) आलभन्ते । तै० १ । २ । ५ । १ ॥ वैष्णवो वामनः (पशुः ) । श० १३ । २ । २ ।९॥ चक्रपाणये ( विष्णवे ) स्वाहा । प० ५ । १० ॥ विष्णुवै देवानां द्वारपः । ऐ० १ । ३० ॥ विष्णवाशानां पते । तै० ३ । ११ । ४ । १ ॥ तस्य (विष्णोः ) उपपरासृत्य । ( वम्रयः ) ज्यामपिजस्तस्यां छिन्नायां धनुराम्य विष्फुरन्थ्यौ विष्णोः शिरः प्रचिच्छिदतुः (विष्णोर्हयग्रीवावतारकथा :- देवीभागावते १।५ । १९, २५, २६, ३०, ४२ ॥ १ । ६ । ८-९ ॥ हयशिरा विष्णुः - नीलकंठीयटीकायुते महाभारते शान्तिपर्वणि, ३४७ । ४८ ॥ ) | श १४ । १ । १ । ९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy