SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ प्रन्थकारप्रशस्तिः। ग्रन्थकारप्रशस्तिः। श्रीप्रश्नवाहनकुले कोटिकनामनि गणे जगद्विदिते । श्रीमध्यमशाखायां हर्षपुरीयाभिधे गच्छे ॥१॥ मलधारिबिरुदविदितश्रीअभयोपपदसूरिसन्ताने। श्रीतिलकसूरिशिष्यः सूरिः श्रीराजशेखरो जयति ॥ २॥ तेनायं मृदुगद्यैर्मुग्धो मुग्धावबोधकामेन । रचितः प्रबन्धकोशो जयताजिनपतिमतं यावत् ॥३॥ तथाकद्वारवीरदुस्साधवंशमुकुटो नृपौघगीतगुणः । बब्बूलीपुरकारितजिनपतिसदनोच्छलत्कीर्तिः ॥ ४॥ बप्पकसाधोस्तनयो गुणदेवोऽजनि सपादलक्षभुवि । तद्भूनकनामा तत्पुत्रः साढको दृढधीः ॥ ५॥ तत्सूनुः सामन्तस्तं कुलतिलकोऽभवजगत्सिंहः । दुर्भिक्षदुःखदलनः श्रीमहमदसाहिगौरवितः ॥ ६ ॥ तज्जो जयति सिरिभवः षड्दर्शनपोषणो महणसिंहः । ढियां स्वदत्तवसतौ ग्रन्थमिमं कारयामास ॥७॥ शरगगनमनुमिताब्दे (१४०५) ज्येष्ठामूलीयधवलसप्तम्याम् । निष्पन्नमिदं शास्त्रं श्रोत्रध्येत्रोः सुखं तन्यात् ॥ ८॥ ॥ इति चतुर्विंशतिप्रबन्धाऽपरनामा प्रबन्धकोशो ग्रन्थः सम्पूर्णः ॥ 10 1AB मिषगच्छे। 2 ABE सत्कुल। * नास्ति पद्यमेतत् A आदर्श । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.016085
Book TitlePrabandh kosha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Jinvijay
PublisherSinghi Jain Gyanpith
Publication Year1935
Total Pages176
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy