SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ वस्तुपालप्रबन्धः । ११५ दृष्टौ कृता । उक्तं च तेन - मातुर्मूर्त्तिरियम् । तदा मन्त्रीश्वरेणाशिखानखं दृष्टा मूर्त्तिः । दृष्ट्वा रुदितं च' प्रथममश्रुमात्रम्, ततो व्यक्तेतरो ध्वनिः, ततो व्यक्ततरः । सर्वे तदस्थाः पृच्छन्ति - देव ! किं कारणं रुद्यते ? । हर्षस्थाने को विषादः ? । [ यथा* ] श्रुतशील उद्धव इव विष्णोः, अभय इव श्रेणिकस्य, कल्पक इव नन्दस्य, जाम्बक इव वनराजस्य, आलिग इव सिद्धराजस्य, उदयन इव कुमारपालस्य [तथा*] त्वं मन्त्री वीरधवलस्य । विपद्भीताः पर्वता इव सागरं [तथा *] त्वामाश्रयन्ति 5 भूपाः । तार्येणेव पन्नगाः [ तथा *] त्वया हताः सपत्नाः पृथिवीपालाः । चन्द्राय इव चकोराः [तथा *] तुभ्यं स्पृहयन्ति खजनाः । हिमवत इव गङ्गा [तथा *] त्वत्प्रभवा' राजनीतिः । भानोरिव पद्मा: [ तथा *] तवोदयमीहन्ते सूरयः । विष्णाविव रमते त्वयि श्रीः । तन्नास्ति यन्न' ते [ एवं सति किमर्थं दुःखं धियते ?* ] ततो मन्त्रिणोक्तम्- इदं दुःखं यन्मे 'भाग्य-सङ्घाधिपत्यादि विभूतिर्मातृमरणादनन्तरं सम्पन्ना । यदि तु सा मे माता इदानीं स्यात्, तदा खहस्तेन मङ्गलानि कुर्वत्या - 10 स्तस्या मम च मङ्गलानि कारयतः पश्यतश्च लोकस्य कियत्सुखं भवेत् । परं किं कुर्मो धात्रा हताः स्मः [ एकैकन्यूनीकरणेन * ] । ततः श्रीनरचन्द्रसूरिभिर्मलधारिभिरभिहितम् - मनीश्वर ! यथा त्वं सचिवेषु तथाऽत्र देशे प्रधानं राजसु सिद्धराजो व्यजयत । स मालवेन्द्रं जित्वा पतनमागतो मङ्गलेषु क्रियमाणेष्वपाठीद् यथा २९२. 15 मास्म सीमन्तिनी कापि जनयेत् सुतमीदृशम् । बृहद्भाग्यफलं यस्य मृतमातुरनन्तरम् ॥ ५५ ॥ तस्मात् [ हृदयमधः कृत्वा स्थीयते विवेकिभिः * ] न सर्वेऽपि नृणां मनोरथाः प्रपूर्यन्ते । [ इत्याद्युक्त्वा मन्त्री बलादारात्रिकमङ्गलदीपादिकारितः । ततो चैत्यवन्दना गुरुवन्दनं च । तदा *] श्रीनरचन्द्रसूरिभिराशीर्दत्ता २९३. तवोपकुर्वतो धर्मं तस्य त्वामुपकुर्वतः । वस्तुपाल ! द्वयोरस्तु युक्त एव समागमः ॥ ५६ ॥ इत्यादि' । अथ रात्रौ तन्मयतया नाभेयपूजाध्यानदानपूजाः । तदा कवयः पठन्ति । एकः कश्चित् २९४. ये पापप्रवणाः स्वभावकृपणाः स्वामिप्रसादोल्बणा, स्तेऽपि द्रव्यकणाय मर्त्यभषणा जिह्न ! भवत्या स्तुताः । तस्मात् त्वं तदघापघातविधये बद्धारा सम्प्रति, श्रेयःस्थानविधानधिक्कृतकलिं श्रीवस्तुपालं तुहि ॥५७॥ अपरस्तु २९५. सूरो रणेषु चरणप्रणतेषु सोमो, वक्रोऽतिवक्रचरितेषु बुधोऽर्थबोधे । नीतौ गुरुः कविजने कविरक्रियासु, मन्दोऽपि च ' ग्रहमयो नहि वस्तुपालः ॥ ५८ ॥ अन्यस्तु२९६. श्रीभोजवदनाम्भोजवियोगविधुरं मनः । श्रीवस्तुपालवक्त्रेन्दौ विनोदयति भारती ॥ ५९ ॥ इतरस्तु - २९७. श्रीवासाम्बुजमाननं परिणतं पञ्चाङ्गुलिच्छतो, जग्मुर्दक्षिणपञ्चशाखमयतां पञ्चापि देवद्रुमाः । वाञ्छापूरणकारणं प्रणयिनां जिह्वैव चिन्तामणि, जीता यस्य किमस्य शस्यमपरं श्रीवस्तुपालस्य तत् ॥ ६०॥ सर्वत्र लक्षदानम् । अष्टाहिकायां गतायां ऋषभदेवं गद्गदोक्त्या मन्त्री आपृच्छत" 1 P दृष्ट्वा च रुदितम् । 5 P तदा । 6 P व्यजियत । Jain Education International * P पुस्तके प्रक्षिप्तप्राया एते पाठाः । 7A इति । 8P ० ध्यानदानः । 22 P प्रभवति । 9 V विग्रहमयो । For Private & Personal Use Only 3 PV यन्नास्ति । 10 P अपृच्छत् । 4 P भाग्यं । 20 25 30 www.jainelibrary.org
SR No.016085
Book TitlePrabandh kosha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Jinvijay
PublisherSinghi Jain Gyanpith
Publication Year1935
Total Pages176
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy