SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ श्रीआगमोद्धारक-स्तवः शास्त्रोपझं हितमुपदिशन भूरिभव्यप्रबोधं, वर्षाकालं मनुमितमथो ‘राजपुयी'मुवास । सत्रा श्री नेमिमुनिपति'नोदूह्य सिद्धान्तयोगान , 'पन्यासाख्यं' पदमलभत ज्येष्ठशुक्ले दशम्याम् ॥ ३४ ।। वर्षा नीत्वा ‘कपडवणजे' धर्मकृत्यैस्सुरम्यै यात स्सौराष्ट्र मथ विचरन देशनादानदक्षः । कृत्वेतस्तारणवरगिरेस्स्पर्शनां धर्मवाचा, प्रोतैः 'पेथापुर परिषदो योजकैस्सत्कृतोऽभूत् ॥ ३५॥ मजभव्यान् भवजलनिधौ रक्षिता जैनवाग्भि वर्षे नीत्वाऽऽगमविधियुते 'भावराजाख्य पुर्योः'। 'सूर्यद्रङ्गे' विविधसुमहैस्सत्कृतस्सूरतीयै श्चातुर्मासीं 'सुरतनगरे' यापयास रम्याम ॥ ३६ ॥ चैत्यान् सर्वान् सविधि 'सुरते'श्राद्धसङ्घन नत्त्वा, __ गत्वा 'मुम्बापुरि भविजनैः प्रार्थितः 'लालबागे'। गौराङ्गाणां ‘समितशिखरे' हर्म्यसन्निमिमीषां, धैर्यात् सत्ताभियमगणयन ध्वस्तवान् यः क्षणेन ॥ ३७ ।। 'दे ला. भ्रातु'निधिमपि वरं स्थापयित्वोपदेशा दारेभे सद्विषयखवितग्रन्थरत्नप्रकाशम । सङ्गं नीत्वाऽभयविधु'मुखं 'चान्तरीक्षाबतीर्थे,' यात्रां चक्रे रसरिनिरतैः श्राद्धवर्यैस्समेतः ॥ ३८ ॥ धार्थ नग्नस्सुबहु विहितं तत्र पूजाप्रसङ्गे, मिथ्याभ्याख्यानमपि च ततो न्यायगेहे प्रयुक्तम् । जित्वाऽकार्युः झगिति गुरवस्सत्यतत्त्वप्रयोगा ___ दाङ्ग्लन्यायाधिपतिहृदये जैनधर्मप्रकाशम् ॥ ३९ ॥ १ चतुर्दशममित्यर्थः । २ राजनगरे-अहमदावादपुरे। ३ तारंगातीर्थस्येत्यर्थः । ४ पेथापुरीयप्रान्तिकपरिषदि गुरुवरस्य जातसत्कृतेस्सूचकोऽयंपादः । ५ चातुर्मासद्वयमित्यर्थः। ६ भावनगरे-राजनगरे। ७ अभयचंद्रझवेरिणस्संघपतिपदेन नियोजितमित्यर्थः। ८ 'छरी पालतो संघ' इतिभावः । ९ दिगम्वररित्यर्थः । ___Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016074
Book TitleAlpaparichit Siddhantik Shabdakosha Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages296
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy