SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ एतद्ग्रन्थसंशोधने पञ्च प्रतय उपलब्धा, तत्परिचयः संज्ञा च ॥ प्रतिः - १, संज्ञा - १ पाटण श्रीहेमचन्द्राचार्यजैनज्ञानमन्दिरस्य, सटीका, प्रतिसङ्ख्या - १३०१ ( डाबडा - २६८), पत्राणि - ४८१, पङ्क्तयः १४ तः १६, अक्षराः ३६ तः ४६, सुवाच्या, शुद्धाशुद्धमिश्रा, सम्पूर्णा, ले. सं. १८०२ ॥ प्रति:- २, संज्ञा - २ मांडवी ( कच्छ ) सङ्घभण्डारस्य, सटीका, पत्राणि - ३५०, पङ्क्तयः - २० तः २२, अक्षराः ५०तः ५६, सुवाच्या, शुद्धाशुद्धमिश्रा, सम्पूर्णा, ले. सं. १८७९ ॥ प्रतिः — ३, संज्ञा-३ डभोईवर्तिआचार्यश्रीजम्बूसूरिज्ञानमन्दिरस्य, सटीका प्रतिसङ्ख्या- ८४/४७५२, पत्राणि - ३५०, पङ्क्तयः-१७ तः १९, अक्षरा:- ५० तः ५६, सुवाच्या, शुद्धबहुला, सम्पूर्णा, ले. सं. १७८० ॥ प्रतिः - ४, संज्ञा-४ वटपद्र ( वडोदरा ) मुनिराज श्रीहंसविजयजीशास्त्रसङ्ग्रहस्य ( श्रीजैनज्ञानमन्दिरस्य), सटीका, प्रतिसङ्ख्या - १३३३, पत्राणि - ४५७, पडक्तयः - १५, अक्षराः - ४५ त: ४७, सुवाच्या, शुद्धबहुला, सम्पूर्णा, ले. सं. १८७७ ॥ प्रतिः - ५, संज्ञा - ५ पाटण श्रीहेमचन्द्राचार्यजैनज्ञानभण्डारस्य ( - मन्दिरस्य), प्रतिसङ्ख्या - १३९४० ( डाबडा - २९२), पत्राणि - ११५ (५७+५८), पङ्क्तय: - २०, अक्षराः ५२ त ५४, सुवाच्या, शुद्धाशुद्धमिश्रा, अपूर्णा (प्रतिरियं तिर्यक्काण्डत उपलब्धा), ले.सं. १८०९ ॥ सङ्केतः [ अम. क्षीर. २ । ३ । १० ॥] अन्या अपि प्रतयोऽचलगच्छीयसाहित्यमनीषिपरमपूज्याचार्य श्रीविजयकलाप्रभसागरसूरीश्वरैर्मुनिराज श्रीसर्वोदयसागरविजयेन च प्रदत्ता:, तेषामुपयोगो विषमस्थल एव कृतः, सूरिवरमुनिवराणामयमुपकारो विस्मरणेन न कृतघ्नीभवामि ॥ सङ्केतानि निदर्शनम् अमरकोशस्य द्वितीयकाण्डस्य तृतीयवर्गस्य १० तमश्लोकस्य क्षीरस्वामिकृतामरकोशोद्घाटनटीका (टीकाया काण्ड-वर्ग-लोकसङ्ख्यानिदर्शनम् ) ॥ तृतीयकाण्डस्य प्रथमवर्गस्य ४५ तमो लोकः ( काण्ड-वर्ग-लोकसङ्ख्यानिदर्शनम् ) ॥ वैयाकरणश्रीशाकटायनप्रणीत श्रीपाणिनिमुनिसम्मतपञ्चपाद्या उणादिगणस्य सूत्रसङ्ख्या ३७५ तमा (उणादिगणसूत्रसङ्ख्यानिदर्शनम् ) ॥ श्रीपाणिनीयाष्टाध्याय्यास्तृतीयाध्यायस्य प्रथमपादस्य १३३तमं सूत्रम् (अध्याय-पादसूत्रसङ्ख्यानिदर्शनम् ) ॥ दशपाद्युणादिगणस्य ५ पादस्य १५ तमं सूत्रम् ( पाद - सूत्रनिदर्शनम् ) ॥ भ्वादितश्चुराद्यन्तधातूनां गणपदादिनिर्देशनम्, तद्यथा - निर्दिष्टधातुर्ध्वादिगणस्थः परस्मैपदी इट्सहित इति । 'आ.' इत्यस्य आत्मनेपदी, 'उ. ' इत्यस्य उभयपदी, 'वे.' इत्यस्य वेट् ( विकल्पेन इट्), 'अ' अनिट् (न इट् ) इत्यादिकनिदर्शनमप्यत्र ज्ञेयम् ॥ श्री हेमचन्द्राचार्यप्रणीतोणादिगणस्य ३३ सूत्रम् (सूत्रसङ्ख्यानिदर्शनम् ) ॥ [ अमरकोषः ३ | १ ॥४५ ॥] (उणा - ३७५) 'ण्वुल्तुचौ ३ । १ । १३३ ॥' (दशपाद्युणा - ५।१५) (भ्वा.प.से.) (हैमोणा-३३) ) ( ३० : संशोधन-सम्पादनपद्धतिः : [ Jain Education International ] :― वर्तुलान्तर्गतपाठोऽभीष्टः शुद्धो वा ॥ एवमन्यान्यपि सङ्केतानि विद्वद्भिर्ज्ञेयानि ॥ कोष्ठान्तर्गतपाठोऽनुपलब्धः ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy