SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ १८ बुद्धिमत्तायाः फलं द्वयं वक्तृत्वं कवित्वं च, परं शब्दज्ञानं विना वक्तृत्वं कवित्वं च कथं संभाव्येत? ॥१॥ कोशं- निधिं विना राज्ञां राज्यानि न प्रचलन्ति, कोऽपि क्रयविक्रयादिव्यवहारो न भवेत्, यदि कोशः सम्पूर्णस्तर्हि राष्ट्रमपि समृद्धं भवति, तथा शब्दकोषं विना क्वापि शास्त्रेषु प्रवेशो न स्यात्, शास्त्रावबोधोऽपि दुर्गम: स्यात् ॥२॥ शास्त्रावगमे व्याकरणाहते निश्चक्षुष्कः, कोशरहितो बधिरः, 'यथा बधिरः श्रवणाभावतो विवशो भवति, तथैषोऽपि शब्दप्रयोगे विह्वलो भवति ॥३॥ अत एव शब्दकोशो ज्योतिरूपः, यथा विना ज्योतिस्त्रिभुवनमन्धकारमयं भवति, तथा शब्दज्योतिर्विना भुवनमण्डलमिदमज्ञानतिमिरव्याप्तं भवेत् ॥४॥ एवं चाऽपारे खलु ज्ञानार्णवे स्वैरविहारं कर्तुं शब्दकोषरूपनौकैव समर्था ॥ शब्दार्थनिश्चायक: कोषः अभिलाप्याः शब्दा अनेकाः, तेषां नियतोऽर्थस्तु न संभाव्यते, वक्तुरपेक्षया तेषां शब्दानामर्थानन्त्यात् ॥ महर्षिभर्तृहरिराह"प्रतिनियतवासनावशेनैव प्रतिनियताकारोंऽर्थः । तत्त्वतस्तु कश्चिदपि नियतो नाभिधीयते ॥१॥" (वाक्यपदीयम्-२।१३६) इति । उच्चार्यमाणस्य शब्दस्य प्रथममभिधेयार्थः वाच्यार्थ आवश्यकः, तदनु भावार्थः तात्पर्यार्थः, लक्ष्यार्थः व्यङ्ग्यार्थो वाऽवबुध्यते । तदर्थमार्षपुरुषा अष्टावुपाया आहुः "शक्तिग्रहं व्याकरणोपमान-कोशाप्तवाक्याद् व्यवहारतश्च । - वाक्यस्य शेषाद् विवृतेर्वदन्ति, सान्निध्यतः सिद्धपदस्य वृद्धाः ॥१॥" इति ॥ (१) व्याकरणम्, (२) उपमानम्, (३) कोशः, (४) आप्तवाक्यम्, (५) व्यवहारः, (६) वाक्यशेषः, (७) विवरणम्, (८) शब्दसान्निध्यं च, एतेषामर्थप्रत्यायकतासत्त्वेऽपि मुख्यतया कोषः शब्दार्थनिश्चायकः । तथा अध्ययने लिखनादिषु च शब्दवैपुल्यमेवावश्यकम्, तच्च कोषादेव सुलभम् ॥ कोषपरम्परा इत्थं च शब्दस्य सम्यक्स्वरूपं, सम्यगर्थावबोधश्च न स्यात् तर्हि महानर्थोऽपि संभाव्येत, सम्यक् प्रयोगे च लाभोऽपि महान् स्यात् । यदुक्तं भाष्ये "एकः शब्दः स्वरतो वर्णतो वा, मिथ्याप्रयुक्तो न तमर्थमाह ॥ तद् वाग्वजं यजमानं हिनस्ति, यथेन्द्रशत्रुः स्वरतोऽपराधात् ॥१॥" इति ॥ श्रूयते च पुराणे इन्द्रशत्रुर्वत्र इन्द्रस्योपरि विजयार्थं यज्ञं कृतवान्, इन्द्रशत्रुशब्दे स्वरभेदतः तत्पुरुषसमासस्थाने कर्मधारयसमासेन शत्रोरिन्द्रस्यैव वृद्धिः समजनि, तदेवं शब्दप्रयोगे वर्णादिहीनता न स्यात् तथा प्रयोक्तव्यम् ॥ एवम्- 'एकः शब्दः सम्यग् ज्ञातः, सुष्ठु प्रयुक्तः, स्वर्गे लोके च कामधुम् भवति' इत्यपि भाष्ये प्रोक्तम् । सम्यक् शब्दप्रयोगः, शब्दार्थावबोधश्च कोषादेव सुगमतया भवति । अतः पूर्वमहर्षिभिः शब्दकोशानां सङ्कलनं कृतम्। आदौ श्रीकश्यपमुनिर्निघण्टुद्वारा वैदिकशब्दानामर्थसङ्गतिं कृतवान्, पश्चाच्च निरुक्तकाराः शब्दार्थसिद्ध्यर्थं निरुक्तानि रचितवन्तः। कालान्तरे निघण्टु-निरुक्तानां प्रचारोऽवबोधश्च दुर्गमो जातः, ततश्च शब्दानां पर्यायाः सरलतया सुगमतया च ज्ञानगोचरा भवेयुः, कण्ठस्था अपि ते शीघ्रं स्युरिति गद्यरचनां विमुच्य अनुष्टुपश्लोकै: कोषरचनां कर्तुं समारेभिरे कोषकाराः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy