SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ ३४२ हरिषेणाचार्यकृते बृहत्कथाकोशे [१४८.१ १४८. सुभूमचक्रवर्तिकथानकम् । ईशावन्त्यां पुरि श्रीमान् कार्तवीर्यो नृपोऽभवत् । रेवती तत्प्रिया चावीं पीनोन्नतकुचद्वया ॥१॥ अष्टमश्चक्रिणां मध्ये सुभूमश्चक्रनायकः । चक्रेण साधितारातिर्बभूव तनयोऽनयोः॥२॥ सूपकारोऽभवत् तस्य सुभूमस्य कुशाग्रधीः । विजयोपपदः सेनो भक्तादिपचने पटुः ॥३॥ 5 अन्यदा सूपकारेण पायसं शीतलेतरम् । क्षिप्तं भोजनवेलायां भाजनेऽस्य महीभृतः ॥ ४ ॥ तदुष्णं पायसं दृष्ट्वा भाजने चक्रभृत् तदा । पायसोलिप्तसङ्गिं सूपकारं ममार सः ॥५॥ मृतः क्षारसमुद्रान्ते रत्नद्वीपान्तरे वरे । बभूव व्यन्तरो देवो सूपकारोऽस्य भूपतेः ॥६॥ ततस्तापसरूपेण रत्नद्वीपान्तरादरम् । फलान्यादाय संप्राप्य सुभूमं चक्रिणं सकः ॥७॥ दृष्ट्वाऽमुं तापसं चक्री पप्रच्छेदं प्रणम्य सः । फलान्येतानि दिव्यानि कुतो लब्धानि मे वद ॥८॥ " सुभूमचक्रिणो वाक्यं श्रुत्वेदं तापसोऽवदत् । फलान्यमूनि विद्यन्ते मन्मठे धरणीपते ॥ ९॥ निशम्य तापसस्योक्तं सुभूमोऽपि बभाण तम् । फलान्येतानि भो साधो दिव्यानि शीघ्रं देहि मे ॥१०॥ विहाय सकलं राज्यं चलितं फललोभतः । निनाय तापसः क्षिप्रं वार्धिमध्ये नरेश्वरम् ॥ ११ ॥ नीत्वा मिथ्यात्वमेतं तु सूपकारचरोऽमरः । ममार चक्रिणं कोपात् समुद्रसलिलान्तरे ॥ १२ ॥ व्यन्तरेण हतोऽनेन सुभूमश्चक्रभृत् तदा । सप्तमं नरकं प्राप्य संसारं भ्रमति स्म सः ॥ १३ ॥ ॥ इति श्रीसुभूमचक्रवर्तिकथानकमिदम् ॥ १४८॥ १४९. सुप्तपुरुषराज्यदर्शनकथानकम् । अवन्तीविषये दिव्ये श्रीमदुजयिनी पुरी । अस्यां बभूवतुद्वौं हि दारिद्रोपहतौ नरौ ॥१॥ काष्ठादिकं समादाय क्रीत्वाऽस्यां पुरि जीवनम् । कुरुतः स्वस्य तौ दीनौ क्षुत्पम्पाभ्यां कदर्थितौ ॥२॥ अन्यदा ज्येष्ठमासे तौ नानानोकुहसंकुलम् । तृणकाष्ठादिसंकीर्ण मनुष्यौ जग्मतुर्वनम् ॥ ३॥ 20 वैवधं काष्ठसंपूर्णं गृहीत्वा तौ नरौ वनात् । श्रमश्रान्तसमस्ताङ्गौ सपनं प्रापतुः सरः ॥४॥ मुक्त्वा काष्ठभरं तत्र पीत्वा तोयं सुशीतलम् । खेदखिन्नसमस्ताङ्गौ सुप्तौ तौ सरसस्तटे ॥५॥ महाविभूतिसंयुक्तं सिंहासनमधिष्ठितम् । त्रैलोक्यराज्यमैक्षिष्ट तत्रैको निद्रयाऽन्वितः॥ ६॥ उत्थितेन द्वितीयेन नरेणोत्थापितः परः । उत्थापनेऽमुना स्वस्य चुकोपास्मै समुत्थितः ॥ ७ ॥ पतित्वा स पुनः सुप्तो भूमों राज्यदिदृक्षया । पश्यति स्म न तं राज्यं हरिहस्तिधनादिकम् ॥ ८॥ 23 पुनः सुप्तेन नोऽनेन लब्धं राज्यं मनीषितम् । तथा समानुषं जन्म धर्मवद्दुर्लभं पुनः ॥९॥ ॥ इति श्रीसुप्तपुरुषराज्यदर्शनकथानकमिदम् ॥ १४९॥ १५०. धनदेवादिकथानकम् । अवन्तीनामसंयुक्ते विषये धनसंकुले । विद्यते पौरसंयुक्ता श्रीमदुज्जयिनी पुरी ॥१॥ श्रेष्ठी सुहस्तनामास्यां धनद्वादशकोटिकः । भार्या वसन्ततिलका गणिका रूपशालिनी ॥२॥ 30 वसन्ततिलकागर्भ नरस्त्रीयुगलं रतिम् । धवेन सह कुर्वन्त्याः संभूतं दैवयोगतः ॥३॥ तस्मिन् संभूतिमापन्ने तच्छरीरेऽतिदारुणः । कुछूकण्डादयो रोगा बभूवुः कृतवेदनाः ॥ ४ ॥ 1 [शीघ्रं दिव्यानि देहि मे]. 2 [ कच्छू ]. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016060
Book TitleBruhat Katha kosha
Original Sutra AuthorHarishen Acharya
Author
PublisherBharatiya Vidya Bhavan
Publication Year1943
Total Pages566
LanguagePrakrit, Sanskrit
ClassificationDictionary & Dictionary
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy