SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ ६३ -३४.२] मनुष्यभवप्राप्तिकथानकम् ते जीवास्ते नरा दिव्याः स चक्री स मणिः परः । कदाचिदैवयोगेन प्राप्नुवन्ति समागमम् ॥४॥ मनुष्यत्वमपि प्राप्तं मुक्तिश्रीप्राप्तिकारणम् । समाधिर्बोधिना सार्धं देहिभिर्दुर्लभो भवेत् ॥ ५॥ ॥ इति श्रीमनुष्यत्वप्राप्तिदुर्लभबोधिसमाधिसमागमकथानकम् ॥४१॥ ४२. मनुष्यभवप्राप्तिकथानकम् । सागरादिकदत्तस्य श्रेष्ठिनो जलयायिनः । करादनर्घरत्नानि न्यपतन् सागरान्तरे ॥१॥ । आगमाहितचेतोभिर्यशोव्याप्तदिगन्तरैः । उपलम्भवराख्यानमिदं वक्तव्यमादरात् ॥२॥ एकः कोऽपि नरः सुप्तश्चक्री स्वप्नसमागमात् । स जीवः सोऽपि वा स्वप्नो दुर्लभो मानुषो भवः ॥३॥ विद्यते लोकविख्याता श्रीमदुजयिनी पुरी । चेलकाख्यो नरः कोऽपि वसत्यस्यां सुदुर्विधः ॥४॥ अन्यदा सोऽटवीं गत्वा काष्ठान्यादाय भूरिशः । तद्भारविह्वलखान्तो मुमोचैतानि दुःखितः ॥५॥ सुखसुप्तस्य तस्यारं श्रीमदुज्जयिनीवने । वक्तव्यं पुरुषैः प्राज्ञैः कथानकमिदं भुवि ॥६॥ ॥ इति श्रीमनुष्यभवप्राप्तिकथानकमिदम् ॥ ४२ ॥ ४३. अर्जुनचन्द्रकवेधकथानकम् । द्विसहस्रारकं चक्र स्तम्भा द्वाविंशतिः परः। तच्चन्द्रकं पराभागे निगदन्ति मनीषिणः ॥१॥ चन्द्रकस्यास्य वेधं यः करोति प्रीतमानसः । तस्मै ललामरामाणां कन्यारत्नं ददाम्यहम् ॥२॥ तानि च्छिद्राणि तच्चक्र विध्यते केनचित्तराम् । मानुष्यं चन्द्रकं लोकैर्दुःखतो विध्यते पुनः॥३॥ अथवाऽनेन भेदेन चान्द्रकं वेधमुत्तमम् । वदन्ति सूरयो लोके ज्ञाननिष्णातबुद्धयः ॥४॥ स्थित्वा भ्राम्यन् क्रमेणायमादिमं सप्तमं क्रमात् । त्रीणि त्रीणि पदानीत्वा चैकैकं पुरतो हि षट् ॥५॥ तच्छिद्रेऽपि परिभ्राम्यन् सरोलाघवयोगतः । सज्जः सन् विध्यति क्षिप्रं चन्द्रकाख्यं व्यधं नरः॥६॥ तथा चोक्तम्स्थित्वा भ्राम्यदनुक्रमेण युगपत्सप्तक्रमेणादिमः त्रीणि त्रीणि पदान्यतीत्य पुरतोऽप्येकैकमेवं हि षट् । तच्छिद्रभ्रमदर्पदन्तरसिरोजीन्तर्गतो' दर्पणे सजश्चेति य एष विध्यति नरः स्याञ्चन्द्रकाख्ये व्यधः ॥७॥ कृतं द्रुपदराज्येन काकन्यां पुरि चन्द्रकम् । कृष्णानिमित्तमाविद्धं नरेण विदुषा द्रुतम् ॥ ८॥ द्राधीयसाऽपि कालेन विश्वं यत्न" प्रकुर्वतः ।जीवोऽपि न च शक्नोति मनुष्यभवचन्द्रिकम् ॥९॥ 25 ॥ इति श्रीअर्जुनचन्द्रकवेधद्रौपदीनिमित्तकथानकम् ॥४३॥ ४४. नन्दकच्छपकथानकम् । एकोऽपि यो भवेजीवो यैर्देवैः परिरक्षितः । ते सुरास्ते धराकाया दुःखिनो जीवराशयः ॥१॥ जीवास्ते तेऽमरा देव्यस्तच्चक्रं भारतेऽन्वये । एते सर्वेऽपि लभ्यन्ते मानुषत्वं सुदुर्लभम् ॥२॥ 1 पज प्रीतिमानसः. 2 4 ( तिलकभूतस्त्रीणाम् ). 3 [सरोलाघव 4 प लाघवः शस्त्रविद्या. 5 पफज युग्मम्. 6 [तच्छिद्रे भ्रमदर्पदन्तुरशिरोज]. 7 [र्गते]. 8 [स्याञ्चन्द्रकाख्यो]. 9 ज (=अर्जुनेन). 10 फ व्युत्वं, ज व्यूद्यां. 11 4 यन्त्रं. 12 फज प्रकुर्वता. 13 [°चन्द्रकम् ]. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016060
Book TitleBruhat Katha kosha
Original Sutra AuthorHarishen Acharya
Author
PublisherBharatiya Vidya Bhavan
Publication Year1943
Total Pages566
LanguagePrakrit, Sanskrit
ClassificationDictionary & Dictionary
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy