SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ हरिषेणाचार्यकृते वृहत्कथाकोशे [९. ३२मीनबन्धनसक्तस्य मुनिरूपानुकारिणः । जिनभक्त्या तथाऽस्माभिः प्रकृतं वन्दनादिकम् ॥ ३२॥ यावदेवं नृपस्तेषां विदधाति प्रबोधनम् । दिव्यरूपः पुरस्तावद्बभूवाशु स धीवरः ॥ ३३॥' हारराजितवक्षस्कः कर्णकुण्डलभासितः । जगौ तदा सभामध्ये श्रेणिकं विबुधो हसन् ॥ ३४ ॥ शङ्कादिदोषनिर्मुक्तं रविकोटिकरोज्वलम् । सम्यक्त्वं श्रेणिकस्यैव भाति नान्यस्य भूतले ॥ ३५॥ 5 इदं सुरवरेन्द्रेण जल्पितं सुरसंसदि । श्रुत्वा 'गर्वग्रहग्रस्तः प्राप्तोऽहं भवदन्तिकम् ॥ ३६ ॥ कृतं धीवररूपं मे त्वत्परीक्षणहेतुना । साम्प्रतं गतसंदेहो भवदर्शनकारणात् ॥ ३७॥ सितं मुक्तामयं हारं हतान्धतमसं करैः । श्रेणिकायेन्द्रनूताय दत्त्वा देवो दिवं ययौ ॥ ३८॥ जिनभक्तिं परां दृष्ट्वा हारदानं सुरेण च । श्रुत्वा भूगोचरस्यापि श्रेणिकस्येन्द्रवर्णनम् ॥ ३९ ॥ केचित् परिग्रहं हित्वा बाह्याभ्यन्तरभेदगम् । महाव्रतधरा धीरा बभूवुः श्रमणास्तदा ॥ ४०॥ " केचिच्छ्रावकतां प्राप्ताः केचित्सम्यक्त्वतोषिणः । केचित्प्रशंसनं कुर्युः जिननाथस्य शासने ॥४१॥ यथा श्रेणिकभूपेन्द्रः सत्सम्यक्त्वविभूषितः । पूजां सुरेन्द्रतः प्राप्तस्तथान्योऽपीह तत्समः ॥४२॥ ॥ इति श्रीसम्यक्त्वसमन्वितश्रेणिकोपगृहनाख्यानकमिदम् ॥९॥ १०. सोमशर्म-वारिषेणकथानकम् । पूर्वोक्तपत्तने श्रीमान् श्रेणिकः श्रीपतिः प्रभुः । आसीदस्य प्रिया चावी चेलना स्त्रीगुणालया ॥१॥ 15 सम्यग्दृष्टिस्तयोः सूनुर्द्वादशाणुव्रतान्वितः । वारिषेणो बभूवायं गुणसंतानवारिधिः ॥२॥ चतुर्यु पर्वस्वप्येष प्रोषधं प्रविधाय च । एकवस्त्रधरो धीरः शर्वरीप्रतिमामधात् ॥३॥ अत्रैव नगरे ख्यातो विद्युच्चौरोऽभवत् तदा । अञ्जनादिकसत्सिद्धिगुटिकासिद्धिकोविदः ॥४॥ तत्प्रिया गणिका चासीत् कामादिलतिका परा । कामिलोकमृगालोकबन्धनायकवागुरा ॥५॥ अथ मुक्तामयं हारं मूल्येन परिवर्जितम् । सुरदत्तं स्वतेजोभिर्धवलीकृतखावनिम् ॥ ६॥ 20 इमं कामलताभिख्या विलोक्य गणिकाऽभवत् । चेलनादिमहादेव्या वनं यान्त्या ज्वरातुरा ॥७॥ हारशोकग्रहग्रस्ता दाघज्वरसमन्विता । विद्युच्चौरप्रिया तस्थौ खट्टामादाय मूढधीः ॥ ८॥ अत्रान्तरे समायातो विद्युच्चौरो निजं गृहम् । अत्र पश्यति भार्यों च खटासुप्तां' ज्वरातुराम् ॥ ९॥ उत्तिष्ठ किं प्रिये शेषे देहि मे वचनं द्रुतम् । किं रुष्टाऽसि विना कार्य ब्रूहि किं करवाणि ते ॥१०॥ स्तेनवाक्यं समाकर्ण्य जगावेतं नितम्बिनी । तवोपरि न मे कोपः किंतु मद्वचनं शृणु ॥ ११ ॥ - दिव्यो हारो मया दृष्टो भासुरश्चेलनागले । तदभावे ज्वरग्रस्ता तिष्ठामि सुखवर्जिता ॥ १२ ॥ श्रुत्वा कामलतावाक्यं विद्युच्चौरो जगाद ताम् । आनयामि तव क्षिप्रं हारमुत्तिष्ठ सुन्दरि ॥ १३ ॥ विश्रब्धीकृत्य तां कान्तां निसृत्य निजमन्दिरात् । मोहयित्वा नरान् सर्वान् राजद्वारव्यवस्थितान् ॥१४॥ क्रमेण श्रेणिकावासं प्राप्य तवारभेदनम् । विधाय सर्पपाघातैर्विवेशायं तदन्तिकम् ॥ १५ ॥ रात्रावादाय तं हारं द्योतिताकाशभूतलम् । तन्मन्दिरानगोत्तुङ्गान्निर्ययौ त्वरितं सकः ॥ १६ ॥ 30 गतनिदैनरैदृष्टो हारोड्योतेन तस्करः । तन्मार्गतोऽनुधावद्भिनिरुद्धः शीघ्रयायिभिः ॥ १७ ॥ चितास्थानस्थितस्यास्य वारिषेणस्य धीमतः । मुमोच तस्करो हारं चरणोपरि वेगतः ॥ १८॥ - 1फ त्रिकलम, पज त्रिकलमिदम्. 2 प गर्भग्रह, फ सर्वग्रह. 3फ चतुष्कलम् , पज चतुष्कुलकमिदम्. 4 प युग्मम् , फयुगलम् , ज युगलमिदम्. 5 Mss. are not regular in putting इति, but I have uniformly used it. Gप युग्मम् ,फ युगलम, ज युगलमिदम्.7 फखट्रां.४ प मे. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016060
Book TitleBruhat Katha kosha
Original Sutra AuthorHarishen Acharya
Author
PublisherBharatiya Vidya Bhavan
Publication Year1943
Total Pages566
LanguagePrakrit, Sanskrit
ClassificationDictionary & Dictionary
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy