SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ कथाकोशः [२३] [२२] जिनवन्दनादिभक्त्या पद्मरथ इति । [ एक्का वि जिणे भत्ती हिट्टा दुक्खलक्खणासयरी | सोक्खाणमणंताणं होदि हु सा कारणं परमं || ७३७ ||] - अस्य कथा – मगधदेशे मिथिलानगर्यां राजा पद्मरथः पापद्धि निर्गतो ऽटव्यां शशकपृष्ठे अश्वं वाह्यन्नेकाकी कालगुहाभ्यन्तरे प्रविष्टः । तत्र दीप्ततपसं सुधर्ममुनिमालोक्योपशान्तो घोटकादवतीर्यं ६ प्रणम्य धर्मं श्रुत्वा सम्यक्त्वाणुव्रतान्यादाय पृष्टवान् — एवंविधं वक्तृत्वादिकं किं क्वाप्यन्यस्यास्ति । कथितं मुनिना - चम्पायां वासुपूज्यतीर्थंकरदेवास्तिष्ठन्ति, तस्य मम च मेरुसर्षपयोरिव वक्तृत्वे ९ दीप्तौ च महदन्तरम् । एतदाकर्ण्य परमभक्त्या प्रभाते वन्दनार्थं तत्र गच्छतस्तस्य धन्वन्तरिविश्वानुलोमचरदेवाभ्यां तद्भक्तिपरीक्षणार्थं सर्पेण मार्गखण्डनं छत्रभङ्गं नगरदाहाद्यपशकुनं कृत्वा वातधूली- १२ पाषाणाग्निज्वालायितं च कृत्वा हस्ती कर्दमे च मग्नो दर्शितः । ततो मन्त्र्यादिभिर्वार्यमाणो ऽपि न व्याघुटितः । वासुपूज्याय नम इत्युक्त्वा कर्दमे हस्तिनं प्रक्षिप्तवान् ततस्तुष्टाभ्यां ताभ्यां माया - १५ मुपसंहृत्य प्रशस्य सर्वरुजापहारो योजनघोषा भेरी च दत्ता । स च वासुपूज्यतीर्थंकरदेवं वन्दित्वा गणधरदेवो जातः ॥ [२३] आराध्य नमस्कारमित्यादि । [ अण्णाणी विय गोवो आराधित्ता मदो णमोक्कारं । चंपाए सेट्ठिकुले जादो पत्तो य सामण्णं ||७५९ ।।] अस्य कथा – अङ्गदेशे चम्पानगर्यां राजा नृवाहनः, श्रेष्ठी २१ वृषभदासस्तद्गोपालेनैकदा गृहमागच्छता यदास्तमितो भाविकासी' - १) यथास्तमितो प्रभावकासी Jain Education International ४१ For Private & Personal Use Only १८ www.jainelibrary.org
SR No.016058
Book TitleKathakosha
Original Sutra AuthorPrabhachandracharya
AuthorA N Upadhye
PublisherBharatiya Gyanpith
Publication Year1974
Total Pages216
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy