SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ १६ श्री-प्रभाचन्द्र-कृतः सर्पो जातः । समुद्रदत्तश्च सुधर्माचार्यपाश्र्वे धर्ममाकर्ण्य मुनिर्जातः । सुमित्रा च तन्माता तदीयार्तेन मृत्वा व्याघ्री जाता। तया च स ३ मुनिर्भक्षितो मृत्वा सिंहसेनराज्ञः सिंहचन्द्रनामा पुत्रो जातः । सिंहसेनराजा च भाण्डागारं द्रष्टुमागतः श्रीभूतिचरसर्पण भक्षितो मृत्वा शल्लकीवने हस्ती जातस्तेन सुघोषमन्त्रिणा च प्रभुमरणात्संजात६ कोपेन मन्त्राज्ञासामर्थ्यात्सर्पाकृष्टिं कृत्वा सर्वे सर्पा भणिताः । अग्नि कुण्डे प्रवेशं कृत्वा अकृतापराधा गच्छन्तु। तं कृत्वा येऽकृताप राधास्ते सर्वे गताः । कृतापराधे श्रीभूतिचरस स्थिते ततः सुघोष९ मन्त्रिणोक्तम्-विषं मुच्यतामग्निप्रवेशो वा क्रियतामिति । अगन्धन कुलोद्भूतोऽहं न विषं मुञ्चामीति तथा अग्निप्रवेशः कृतो मृत्वा शल्लकीवने कुर्कुटसर्पो जातः । रामदत्तया राज्या च निजपति१२ वियोगात्कनकश्रीक्षान्तिकापावें तपो गृहीतम् । सिंहचन्द्रेणापि निजपितृदुःखात्पूर्णचन्द्रस्य लघुभ्रातुः राज्यं दत्त्वा सुव्रतमुनेः पार्वे तपो गृहीतं च तपोमाहात्म्यान्मनःपर्ययज्ञानी चारणश्च जातः । १५ रामदत्तया च तं तथाविधं मुनिं दृष्ट्वा प्रणम्य चोक्तम्-भगवन्मदीय एव कुक्षिर्धन्यो येन त्वं धृतोऽसीत्युक्त्वा मुने, पूर्णचन्द्रस्त्वदीयो भ्राता कदा धर्म ग्रहीष्यतीति । भगवानाह-पश्य मातः संसारवैचित्र्यम् । सिंहसेनो राजा सर्पदष्टो मृत्वा शल्लकीवने हस्ती जातो मां दृष्ट्वा स मारयितुं धावन्मया भणितः। भो सिंहसेनराजन्नहं सिंहचन्द्रः पूर्वं तव प्राणवल्लभः पुत्रोऽभूवमिदानीं मारयसि लग्न २१ इत्युक्ते जातिस्मरो जातो मम पादमूले प्रणम्याश्रुपातं कुर्वाणः स्थितः। केसरवतीनदीतीरे मया च विशिष्टं धर्मश्रवणं कृत्वा सम्यक्त्वं ग्राहितोऽणुव्रतानि च दत्तानि प्रतिपालयन् प्राशुकमाहारं पानीयं च २४ गृह्णनवमोदर्यादिना कृशशरीरः केसरवतीनदीतीरे कर्दमे निमग्नः श्रीभूतिचरकुक्कुटसर्पेण तत्कुम्भस्थलारोहणं कृत्वा स खाद्यमानः संन्यासं कृत्वा पञ्चनमस्कारान् स्मरन्मृतः सहस्रारे श्रीधरनामा १८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016058
Book TitleKathakosha
Original Sutra AuthorPrabhachandracharya
AuthorA N Upadhye
PublisherBharatiya Gyanpith
Publication Year1974
Total Pages216
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy