SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ १४ श्री-प्रभाचन्द्र-कृतः जिनशासनप्रभावना कृता । अत्र च कुदेवानां नमस्काराकरणात्सम्यग दर्शनमुयोतितम् । सकलैकान्तवादिनिराकरणात्सम्यग्ज्ञानमिति । ३ एतन्महाश्चर्यं दृष्ट्वा शिवकोटिमहाराजस्य अन्येषां च तत्रत्यलो कानां जैनदर्शने महती श्रद्धा परमविवेकः [च] संपन्नः । चारित्र मोहक्षयोपशमविशेषवशाच्च परमवैराग्यसंपत्तौ राज्यं परित्यज्य ६ तपो गृहीत्वा सकलश्रुतमवगाह्य लोहाचार्यविरचितां चतुरशीति सहस्रसंख्यामाराधनां मन्दमत्यल्पायुःप्राण्याशयवशाद्ग्रन्थतः संक्षिप्य अर्थतोहें लिङ्ग इत्यादिचत्वारिंशत्सूत्रः परिपूर्णामर्धतृतीय९ सहस्रसंख्यां मूलाराधनां कृतवानिति ।। [८] अथ तपउद्योतकथा । यथा जम्बूद्वीपेऽपरविदेहे गन्धमालिनीविषये वीतशोकपुरे राजा । १२ वैजयन्तो, राज्ञी भव्यश्रीः, पुत्रौ संजयन्तजयन्तौ। एकदा वैजयन्तः पट्टहस्तिनो विद्युत्पातान्मरणमालोक्य वैराग्यं गत्वा पुत्राभ्यां राज्यं ददानस्ताभ्यां भणितः–तात, यदीदं सुन्दरं भवति तदा त्वया __ १५ किमिति त्यज्यते । ततस्त्याज्यस्य राज्यस्यावयोविधाननिवृत्ति रस्तीत्युक्ते संजयन्तपुत्राय वैजयन्तनाम्ने राज्यं दत्त्वा त्रिभिरपि तपो गृहीतम्। पित्रा च विशिष्टं तपः कुर्वता घातिकर्मक्षयं कृत्वा १८ केवलमुत्पादितम् । देवागमने जाते धरणेन्द्ररूपं विभूति च पश्यता जयन्तमुनिना निदानबन्धः कृतः। ईदृशं रूपं विभूतिश्च तपोमाहात्म्यान्मे भूयादिति । ततः कतिपयदिनैनिदानवशाद्धरणेन्द्रो जातः । संजयन्तमुनिश्च दुर्धरतपसा पक्षमासोपवासादिना क्षुत्पिपासादिपरीषहैरातापनादिकायक्लेशेन क्षीणशरीरो महाटव्यामेकदा सूर्य प्रतिमायोगेन स्थितः । एतस्मिन्प्रस्तावे विद्युदंष्ट्रनाम्नो विद्याधरस्य २४ मुनेरुपरि गच्छतो विमानं स्खलितम् । ततस्तेन विमानस्खलने कि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016058
Book TitleKathakosha
Original Sutra AuthorPrabhachandracharya
AuthorA N Upadhye
PublisherBharatiya Gyanpith
Publication Year1974
Total Pages216
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy