SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ श्री-प्रमाचन्द्र-कृतः स्फोटयित्वा सुगतं च पादेन हत्वा मदनसुन्दर्याः समस्तभव्यानां चानन्दं जनयता गलगर्जं कृत्वा अयं वराकसंघश्रीः प्रथमदिन एव ३ जितः । ताराभगवत्या च सह जैनमतज्ञानप्रभावोद्योतनार्थमेतावन्ति दिनानि वादः कृतः । इत्युक्त्वा श्लोकः पठितः। नाहंकारवशीकृतेन मनसा न द्वेषिणा केवलं नैरात्म्यं प्रतिपाद्य नश्यति जनः कारुण्यबुद्धया मया । राज्ञः श्रीहिमशीतलस्य सदसि प्रायो विदग्धात्मनो बौद्धौघान् सकलान्विजित्य सुगतः पादेन विस्फालितः ॥ ९ एवंविधं च ज्ञानप्रभावं दृष्ट्वा हिमशीतलराजादयः सर्वेऽपि जिन धर्म एव रताः संपन्ना इति । एवमन्येनापि भव्येन ज्ञानोद्योतनादिकं कर्तव्यमिति ॥ [३] अथ चारित्रोद्योतनाख्यानम् । यथा-भरतक्षेत्रे वीतशोकपुरे राजा अनन्तवीर्यो, राज्ञी सीता, पुत्रः सनत्कुमारश्चतुर्थश्चक्रवर्ती षट्खण्डपृथ्वी प्रसाध्य नवनिधान१५ चतुर्दशरत्नाद्युपेतः परमविभूत्या राज्यं कुर्वन्नास्ते । एतस्मिन्प्रस्तावे सौधर्मेन्द्रो निजसभायां पुरुषस्य रूपगुणव्यावर्णनां कुर्वाणो देवैः पृष्ठः देव, भरतक्षेत्रे किं कस्यापि विशिष्टं रूपं विद्यते न वा। इन्द्रेणोक्तम्१८ सनत्कुमारचक्रवर्तिनो यादृशं रूपं तादृशं देवानामपि न संभवती त्येतच्छ्रुत्वा मणिमालिरत्नचूलदेवौ तद्रूपं द्रष्टुमायातौ । दृष्टं च मज्जनके प्रविष्टस्य चक्रवर्तिनः सर्वावयवगतं सहजमत्यद्भतं चेतश्च२१ मत्कारकारि दिव्यरूपम् । तदृष्ट्वा शिरःकम्पं कुर्वद्भ्यामहो देवा नामपीदृशं रूपं न संभवतीत्युक्त्वा सिंहद्वारे प्रकटीभूय प्रतीहारो भणितः--भो प्रतीहार, चक्रवर्तिनः कथय, भवदीयं रूपं द्रष्टुं स्वर्गा____२४ देवावागताविति । एतदाकर्ण्य शृङ्गारं कृत्वा सिंहासने उपविश्या Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016058
Book TitleKathakosha
Original Sutra AuthorPrabhachandracharya
AuthorA N Upadhye
PublisherBharatiya Gyanpith
Publication Year1974
Total Pages216
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy