SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ श्री-प्रभाचन्द्र-कृतः राज्ञी उच्छीर्षके सो योजनशते वैद्य इत्युक्त्वा देवस्य विशेषपूजां कृत्वा राजकुलं परित्यज्य चैत्यालये प्रविश्य यदि संघश्रियो ३ दर्पभङ्गात्पूर्वप्रवाहेण महोत्सवेन मदीया रथयात्रा भवति, तदा ममाहारादौ प्रवृत्ति न्यथेत्युक्त्वा देवस्याने पञ्चनमस्कारं जपन्ती कायोत्सर्गेण स्थिता । अर्धरात्र आसनकम्पात्समागत्य चक्रे६ श्वरी देवी, हे मदनसुन्दरि, मा किंचिदुद्वेगं कुरु, प्रातः संघश्रीदर्पविध्वंसकस्तव वाञ्छितमनोरथपूरको जिनशासनप्रभावनाकारकोऽकलङ्कदेवो नाम दिव्यः पुरुषः आगच्छति लग्न इत्युक्त्वा गता। एतच्छृत्वा राज्ञी संजातपरमानन्दहर्षात्पुलकितशरीरा परमभक्त्या देवस्तुतिं कृत्वा प्रातर्महाभिषेकं निर्वाकलङ्कदेवस्यान्वेषणार्थं चतुर्दिक्षु पुरुषाः प्रेषिताः । तत्र पूर्वस्यां दिशि ये गताः पुरुषास्तैरु१२ द्यानवने अशोकवृक्षतले कतिपयच्छात्रैः परिवृतो नगरविश्राम कुर्वन्नकलङ्कदेवो दृष्टः। छात्रमेकं तन्नाम पृष्ट्वा गत्वा राश्याः कथितम् । ततो राज्ञी चतुर्विधसंघेन सहिता यानपानसमन्विताकलङ्कदेवस्याभिमुखा आगता । तेन दिव्यगन्धविलेपनैश्चाचितेन दिव्यवस्वैः परिधापिते राज्ञी संघस्य क्षेमकुशलवार्ता पृष्टा । ततोऽश्रुपातं कुर्वाणया राज्योक्तम्-संघः क्षेमकुशलेन तिष्ठति। किंतु संघस्य महती म्लानता सांप्रतमत्र जातेत्युक्त्वा संघश्रीविलसितं सर्वं तस्य कथितम् । तदाकाकलङ्कदेवः समुत्पन्नकोपो भणति-कियन्मात्री वराकः संघश्रीर्मया सह सुगतोऽपि वादं कर्तुमसमर्थ इत्युक्त्वा संघश्रियः पत्रं दत्त्वा महोत्सवेन वसतिकायां प्रविष्टः । संघश्रिया च पत्रदर्शनात् क्षुभितचित्तेन पत्रं न भिन्नम्। हिमशीतलराज्ञाकलङ्कदेवो महागौरवेणाकार्य नीत्वा तेन सह वादं कारितः । संघश्रिया चोत्तर२४ प्रत्युत्तरैर्वादं कुर्वताकलङ्कदेववाग्विभवं दृष्ट्वा आत्मनोऽशक्ति प्रति १. पृष्ट्वा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016058
Book TitleKathakosha
Original Sutra AuthorPrabhachandracharya
AuthorA N Upadhye
PublisherBharatiya Gyanpith
Publication Year1974
Total Pages216
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy