________________
कथाकोशः [९०*३१] समीपे कृत्वा कायोत्सर्गेण स्थिता। तत्क्षणादुपसर्गोपशान्तिरभूत् । तमतिशयमालोक्य रुद्रदत्तादयो बहवः श्रावका जाताः ।।
[९०*३१] सुद्धे सम्मत्ते अविरदो वि । [ सुद्धे सम्मत्ते अविरदो वि अज्जेदि तित्थयरणामकम्म । जादो खु सेणिगो आगमेसि अरुहो अविरदो वि ।।७४०॥]
अस्य कथा-मगधदेशे राजगृहनगरे राजा श्रेणिको राज्ञी सुप्रभा पुत्रः श्रेणिकः कुमारः। एकदा प्रत्यन्तवासिना पूर्ववैरिणा नागधर्मेण यो जात्यश्वो दुष्टः प्रेषितः स खञ्चितो ऽतिसरति । एकदा वाह्यालीगतो राजा तेनाश्वेन महाटवीं नीतः । तत्र पल्लीपतिर्यमदण्डो, भार्या विद्युन्मती, पुत्री तिलकावती। यमदण्डेन तिलकावत्याः पुत्राय राज्यं दातव्यमिति भणित्वा तस्मै दत्ता। राजगृहनगरं स प्रेषितः। तयोश्चिलातपुत्रनामा पुत्रो जातः। एकदा राज्ञा मम १२ बहुपुत्राणां मध्ये राजा को भविष्यतीति संचिन्त्य नैमित्तिकः पृष्टः । कथितं तेन-सिंहासनस्थो भेरी ताडयन् शुनां ददत्पायसं यो भोक्षते स राजा भविष्यति । भोजनदिने परीक्षा कृता। सिंहासनभेर्यादि- १५ हस्तः श्वभ्यो भरणादिकं ददता पायसं भुक्तम् । एकदाग्निदाहे जाते हस्तिसिंहासनच्छत्रादिकं श्रेणिकेन निःसारितम् । अयं योग्य इति ज्ञात्वा राज्ञा कुक्कुरविट्टलादिदोषं दत्त्वा स निःसारितः। १८ मध्याह्न नन्दग्रामाग्रहारब्राह्मणैरपि स तथा निःसारितः। तत्र परिव्राजकमठिकायां भोजनं कारितो विष्णुधर्मं प्रतिपन्नवान् । दक्षिणापथे चलितस्यान्यत्कथान्तरम् ॥
२१ द्रविडदेशे काञ्चीपुरे राजा वसुपालो, राज्ञी वसुमती, पुत्री वसुमित्रा, मन्त्री ब्राह्मणः सोमशर्मा, पत्नी सोमश्रीः, पुत्री अभयमतिः । अयं सोमशर्मा मन्त्री धर्मार्थी गङ्गादितीर्थमालोक्य व्याधुटितो २४ ब्राह्मणरूपधारिणः श्रेणिकस्य मार्गे मिलितः । भणितः स श्रेणिकेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org