SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ १३२ श्रीप्रमाचन्द्र-कृतः पत्नी पद्मावती, पुत्री पद्मश्रीः पितुरतिवल्लभा कुमारी। सोमशर्मा परिव्राजकभक्तो मठिकां कारयित्वा बहुपरिव्राजकानां भोजनं ३ ददाति । सुवर्णखुरनामा परिव्राजको रूपवान् शास्त्रज्ञ: संघपतिः कुमारीराद्धं परिविष्टं भुङ्क्ते चागत्य तस्य मठिकां स्थितः। पद्म श्री जनं कारयति संसात्तां गृहीत्वा गतः । पुरोहितेन गविष्टः । ६ राज्ञो ऽग्रे कथितम् । तदादेशात्कोट्टपालन गवेष्यानीतः । धर्मपाठका राज्ञा पृष्टाः । किमस्य क्रियते। तैरुक्तम्-मार्यते भूमौ पततु । तेन श्मशाने वृक्षे अवलम्बितो मृतः । रात्रौ गन्धपुष्पताम्बूलादियुक्तया ९ पद्मश्रिया आलिङ्गितः। एतदाकर्ण्य राज्ञा दाहितः। रात्रौ तथा तया भस्मालिङ्गितम् । पुरोहितेन तद्भस्म नदीद्रहे क्षेपितम्। सा तथा जलमालिङ्गितं सदा । यथा न तस्याः सुखादिकं तथा न १२ किंचिदपि चारणादिकं भ्रान्तिरेव, स राजा तवेन्द्रजालं दर्शयति । स इन्द्रजाली अतो मा त्वं बुद्धधर्म त्यज । पुनर्मिथ्यात्वं तेन सुतरां स नीतो मिथ्यात्वं भणितश्च-प्रभाते त्वं राजसभामागच्छतो ऽपि दृष्टमिति मा वादीः । प्रभाते च राज्ञा सामन्तादीनां गगनचारणागमनकथां कथयता संवादार्थम् आग्रहेण राज्ञा संघश्री आनायितः । आगतेन पृष्टेन च न दृष्टमित्युक्ते द्वे अपि लोचने भूमौ पतिते। १८ अद्यापि सत्यं कथयेति भणिते न दृष्टमिति भणन्नासनात्पतितः । पुनस्तथा भूमौ प्रविष्टो मृतो नरकं गतः दीर्घसंसारी जातः । तदतिशयाज्जिनधर्मे रता लोकाः । अर्हद्दासपुत्राय राज्यं दत्त्वा धनराजो बहुसामन्तैः सह समाधिगुप्तिमुनिसमीपे तपसा मोक्षं गतः। विमलमत्यादयो जिनदत्ताजिकासमीपे जिका जाताः ।। [९०*२३] भावाणुरायरत्त । २४ [ भावाणुरागपेमाणुरागमज्जाणुरागरत्तो वा । धम्माणुरागरत्तो य होहि जिणसासणे णिच्चं ॥७३७।। ] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016058
Book TitleKathakosha
Original Sutra AuthorPrabhachandracharya
AuthorA N Upadhye
PublisherBharatiya Gyanpith
Publication Year1974
Total Pages216
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy