________________
कथाकोशः [९०*९]
११७ राज्ञा भणितम्-भगवन् प्रभाते तत्सर्वं मे दर्शय । मठिकायां प्रभाते दर्शयिष्यामीत्युक्त्वा भोजनं कृत्वा गतः । स प्रभाते मठिकायां राजादीनां ब्रह्मादिकं दर्शयतस्तस्य चाण्डालौ समायातौ। निकृष्ट- ३ चाण्डालावित्यादिकेन भणितेन नष्टा सा विद्या । पृष्टं राज्ञाभगवन्, किमत्र कारणम् । तेन च यथार्थमेव कथिते राज्ञा प्रणम्य चाण्डालो विद्या याचितः। चाण्डालेन पूर्वविधाने कथिते त्रिः परीत्य प्रणम्य दिव्यां गृहीत्वा परीक्ष्य राजा नगरी प्रविष्टः । अन्यदास्थानस्थिते राज्ञि स चाण्डाल: समायातो राज्ञा कथितविधिना प्रणतः। तथा विद्याधरत्वं प्रकटीकृत्य विद्युत्प्रभेणान्या ९ विद्या दत्ता। धनसेनस्य पश्चात्स धनसेनो विद्युद्वेगा अन्ये न श्रावका जाताः । एवं साधुनापि विनयं कर्तव्यः ॥
[९०८] (३) उपधानाख्यानम् । अहिच्छत्रनगरे राजा वसुपालो, राज्ञी वसुमती, वसुपालकारितसहस्रकूटचैत्यालये तद्वचने श्रीपार्श्वनाथप्रतिमायां मद्यादिसेविनो लेपकारा दिवसे मृत्तिकां ददति । रात्रौ सा पतति । लेपकारा १५ कदर्थ्यन्ते निर्धाट्यन्ते । अन्येन लेपकारेण देवताधिष्ठितां प्रतिमां ज्ञात्वा मुनिपार्वे मद्यादीनां समाप्तिदिनं यावदवग्रहं गृहीत्वा समारि[पि]ता सा प्रतिमा । स च राज्ञा पूजितः । एवं मुनिनाप्यव- १८ ग्रहो गृहीतव्यः ॥
[९०९] (४) बहुमानाख्यानम् । काशीदेशे वाराणसीपुर्यां राजा वृषभध्वजो, राज्ञी वसुमती, २१ गङ्गानदीतटे पलाशकूटग्रामे अशोकनामा गोकुलिको घृतकुम्भसहस्रं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org